________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
(आकाशे कर्ण दत्त्वा ।) किं ब्रूथ । 'वैदेशिको भवानसमग्रपात्रः कथमीशे कर्मणि प्रगल्भते' इति । (विहस्य । सप्रश्रयमञ्जलिं बड्डा ।) हन्त भोः, किमेवमुदीर्यते । भवद्विधानामाराधनी वृत्तिरेव मे पात्राणि समग्रयिष्यति । यतः ।
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ४ ॥ न्दलनामानं नटं जित्वैषोऽहं तां प्रीतिं प्रत्याहरामि पुनरानयामि । येन त्वत्प्रीतिरपहृता तं जित्वा तां करोमीति भावः । रज्यन्त्यनुरक्ता भवन्यस्मिन्निति रङ्गो नृत्यम् । 'हलच' इत्यधिकरणे घञ् । 'रङ्गो नृत्ये रणक्षितौ' इति विश्वः ॥ __आकाश इति । 'पात्रस्याल्पतया यत्र पात्रं नैव प्रवेश्यते । नेपथ्य इत्युक्त्वाकाशे लक्ष्यं बद्धेति चोच्यते॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकस्तस्मा(त्स्या)दाकाशभाषितम् ॥' इति भरतः । विविधो देशो विदेशस्तेन चर• तीति वैदेशिकः पथिकः । 'चरति' इति ठक् । अत एवासमनपात्रोऽसंपूर्णभूमिकादिग्राहकः । यदाह भरत:-'रङ्गे विशन्ति निर्यान्ति ये तत्कार्यार्थिनः पुनः । ते सर्व एव पात्राणि कीर्तितानि प्रयोक्तृभिः ॥' इति । ईदृशे विषमे कर्मणि प्रगल्भते धृष्टो भवति । गल्भ धाष्ट्ये धातुः । सप्रश्रयं सहर्षमित्यादि क्रियाविशेषणम् । सर्वत्र क्रिया च वदतिपठतिरूपाध्याहर्तव्या। प्रश्रयो विनयः । हन्त विषादे । 'हन्त हर्षे विषादे च' इति विश्वः । स्वधाये विषादः । यद्वा पात्रसमग्रता भविष्यतेवेति हर्षः । उदीर्यत उच्यते । भवतेति शेषः। आराधनी सेवाविधात्री। करणे ल्युट । टित्त्वान्डीप् । वृत्तिर्व्यापारः । पात्राणि नृत्यपात्राणि । समग्रयिष्यति संपूर्णानि करिष्यति ॥
दृष्टान्तमाह-यान्तीति । न्यायप्रवृत्तस्य नीत्यनुयायिनः । पुरुषस्येति शेषः । तिर्यच्चोऽपि तिर्यग्योनिजाता वानरादयोऽविवेकिनोऽपि सहायतां द्वितीयत्वं यान्ति गच्छन्ति । 'तिरसस्तियलोपे' इति तिर्यादेशः। तुशब्दः पुनरर्थे । अपन्थानमपथं यान्तं गच्छन्तं पुरुषं सोदरः सहोदरोऽपि विमुञ्चति विशेषतस्त्यजति । अपन्थानमित्यत्र 'अपथं नपुंसकम्' इति न क्लीबत्वम् । तत्र कृतसमासान्तनिर्देशात् । इह त्वतथात्वात् । यद्वा ‘पथो विभाषा' इत्यतः पाक्षिकतया ‘पथः संख्याव्ययादेः' इति न क्लीबत्वम् । संख्यासाहचर्यात् पथोऽपि समासान्तयुक्तस्य ग्रहणात् । 'अपन्थास्त्वपथं तुल्ये' इत्यमरः । ननु समानशब्दस्य 'विभाषोदरे' इति सभावे 'सोदरायः' इति यप्रत्यये सोदर्य इति स्यात् । 'समानोदर्यसोदर्यसगय॑सहजाः समाः' इत्यमरोऽपि । तत्कथं सोदर इति । उच्यते। समानमुदरमस्येति बहुव्रीहौ सोदरः । 'समानस्य' इति योगविभागात् 'वोपसर्जनस्य' इति वा सभावः। यद्वा सहशब्दस्य सभावे रूपमिदम् । अत एव 'सोदरोऽपि सहोदरः' इति शब्दभेदः ॥
अत्र च ध्वनिरलंकारः । ध्वनिना च सदस्यानां हृदये सकलमभिधेयं सूच्यते। तथाहि सभ्यांलक्षीकृत्य श्रीरामवचनमिदम् । कुतश्चिद्दीपान्तरादागतेन द्वीपान्तरालङ्कातः समाया
For Private and Personal Use Only