________________
Shri Mahavir Jain Aradhana Kendra
अंबम
॥ ४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्गे ततो निःसृत्य गंगायां गत्वा तत्रैव वैराग्यान्मया तापसीत्वं गृहीतं, ततस्तीर्थयात्रां कुर्वत्यं भ्रमंती सती कियनिर्दिनैरत्र समायाता; दे राजसुते एवंविधो मम संबंधस्त्वया ज्ञातव्यः.
अथ दे सुलोचने त्वमपि ममाग्रे तव स्वरूपं निवेदय ? कथं त्वं पुरुषाणां मुखं न विलोकयसीति पृष्ठे राजपुत्र्या कथितं दे सखि यदर्द पुरुषाणां मुखं नावलोकयामि तद्विषये किंचिदपि महत्कारणं वर्त्तते तपस्विन्योक्तं तत्कारणं त्वं मे कथयस्व ? तदा राजसुतयापि स्वकीयः सर्वोऽपि पूर्व संबंधस्तदग्रे निवेदितः ततस्तया राजकन्ययोक्तं दे सखिसा मे प्रतिशाय त्वयि दृष्टे संपूर्णा जाता दृश्यते, यत्त्वत्सदृशं सुपात्रं मम मिलितं. तेन कारणेन चाहं तव तां विद्यां दास्यामि तत् श्रुत्वा तपस्विन्योक्तं मम विद्यायाः किमपि प्रयोजनं नास्ति. तथापि राजकुमार्या तस्यै बलात्कारेण सा परकायप्रवेशिनी विद्या दत्ता. पुनस्तया तां तपस्विनीं नमस्कृत्य पृष्टं दे मातर्मयि कृपां विधाय कथय ? यद्युष्मत्सदृशो विद्वान कलावांश्च मम को जर्त्ता जविष्यति ? इति श्रुत्वा सा तपस्विनी हृष्टा जाता, ततस्तया ध्यानाडंबरं कृत्वा ज्ञान
For Private and Personal Use Only
चरित
॥ ४७ ॥