SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir o सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः झल्लरी चर्चरी पारी होरा लवा च सिध्मला॥ लाक्षा लिक्षा च गंडूषा गृध्रसी चमसी मसी ॥१०॥ ॥ इति स्त्रीलिंगसंग्रहः॥ पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः॥ च द्वे हुडुके बालचक्रक इति मेदिनी ।” चर्चरी करशब्दः हर्षक्रीडा वा । " चर्चरी गीतभेदे च केशभित्करशब्दयोरिति कोशांतरम् ।” पारी हस्तिपादरज्जुः । “पारी पूरापरागयोः । पात्र्यां कर्परिकायां च पादबंधे च हस्तिनामिति हैमः ।" होरा लग्नार्धं । “होरा तु लग्ने राश्यः शास्त्ररेखाप्रभेदयोरिति हैमः । लदा ग्रामचटकः । “लदा करंजभेदे स्यात्फले वाद्ये खगांतर इति मेदिनी।" सिध्मला मत्स्यविकृताविति मेदिनी । सिध्मला शुष्कमीने स्त्री त्रिलिंग्यां तु किलासिनीति त्रिकांडशेषः ।" लाक्षा जतु । लिक्षा यूकांडम् । गंडूषा जलादिना मुखपूरणम् । " पुंस्यपि । गंडूषो मुखपूर्ती स्याद्गजहस्तांगुलावपि । प्रसृत्या प्रमिते ऽपि स्यादिति हैमः । उन्नतनाभिस्तु गंडूषा नापि मुखपूर्तिरिति बोपालितः । गृध्रसी" वातरोगभेदः। स तु ऊरुसंधौ भवति । चमसी यज्ञपात्रभेदः । “प्रणीतेति प्रसिद्धा । माषपिष्टपोलिकाविशेष इति वैद्यकग्रंथे । चमसो यज्ञपात्रस्य भेदे ऽस्त्री पिष्टके स्त्रियामिति मेदिनी । मसी कज्जलम् । “मेला मसी जलं पत्रांजनं च स्यान्मसिद्धयोरिति त्रिकांडशेषः " ॥ १० ॥ इति स्त्रीलिंगसंग्रहः ॥ अथ पुल्लिंगसंग्रहः ॥ पुंस्त्वे इति पतद्हशब्दपर्यंतमधिकारः । भेदास्तुषितसाध्यादयः । अनुचराः सुनंदादयः तैः सहिताः सुरासुराः देवदैत्याः पर्यायैः सह पुंसि । सुरपर्याया यथा । अमरा निर्जरा देवा मरुत इत्यादयः । तद्भेदा यथा । तुषिताः साध्याः । इंद्रो मरुत्वान्मघवा । सूरसूर्यार्यमा । हाहा हतः । तुंबुरुरित्यादिः । अनुचरा यथा । विष्णोरनुचरा जयविजयप्रभृतयः । रुद्रानुचरा नंदिकेश्वरादयः । एवं असुरपर्याया दैत्या दानवा इत्यादयः । तद्भेदा बलिनमुच्यादयः । असुरानुचराः कुश्मांडमुंडादयः । एवमुनेयं सर्वत्र । एतेषामपि दैवतानि पुंसि वा देवताः स्त्रियामित्यादिबाधकं स्मारयिष्यति । अबाधिता इति वक्ष्यमाणेन । स्वर्गादयश्चोनविंशतिः सभेदाः सपर्यायाश्च पुंसि स्युः । स्वर्गपर्यायो यथा । स्वर्गो नाकस्त्रिदिव इत्यादिः । द्योदिवौ द्वे स्त्रियां For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy