SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५] तृतीयं कांडम्. 'लंका शेफालिका टीका धातकी पंजिकाऽऽढकी ॥७॥ सिध्रका सारिका हिक्का प्राचिकोका पिपीलिका ॥ तिंदुकीकणिका भंगिः सुरंगासूचिमाढयः॥ ८॥ पिच्छावितंडाकाकिण्यथूर्णिः शाणी द्रुणी दरत् ॥ सातिः कंथा तथा ऽऽसंदी नाभी राजसभा ऽपि च ॥९॥ दश्च । “ स तु निर्गुडी इति प्रसिद्धः ।” टीका विषमपदव्याख्या । धातकी वृक्ष'भेदः “धायटी इति प्रसिद्धा । " पंजिका निःशेषपदव्याख्या । आढकी तुवरी " तूर इति प्रसिद्धा " ॥ ७॥ सिध्रका वृक्षभेदः । सारिका पक्षिभेदः " साळुकी इति प्रसिद्धा ।" हिका स्वरभेदः "ऊर्ध्ववातप्रवृत्तौ शब्दविशेषः उचकी इति प्रसिद्धः।" प्राचिका वनमक्षिका । “ पक्षिभेद इति स्वामी ।" उल्का तेजःपुंजः । पिपीलिका कीटभेदः मुंगी इति प्रसिद्धा । शनैर्याति पिपीलिक इति पुंस्त्वमपीति स्वामी ।" तिंदुकी वृक्षभेदः “ टेंभुरणी इति प्रसिद्धा ।" कणिका परमाणुः । भंगिः कौटिल्यभेदः । “विच्छित्तिर्वा । व्याजच्छलनिभे भंगिर्वैदर्भीतनमीलिकेति रभसः।" सुरंगा विवरभेदः “सुरंग इति ख्यातः।" सूचि. य॑धनी । स्त्री सचिर्नृत्यभेदे च व्यधनीशिखयोरपीति रत्नकोशः। "माढिः पत्रशिरा।" माढिदैन्यं पत्रशिरेति हैमः ॥८॥ पिच्छा । " शाल्मलिनिर्यासः भक्तादिमंडश्च । पिच्छा शाल्मलिवेष्टके। पंक्तिपूगच्छटाकोशमंडेष्वश्वपदामये । मोचायां पिच्छल इति हैमः ।" वितंडा वादभेदः । काकिणी पणचतुर्थांशः । “काकिणी पणतुर्यांशे मानदंडे च दृश्यते । कृष्णलैकवराटयोः स्यादुन्मानस्यांशके ऽपि चेति मेदिनी । रभसस्तु नातेष्वप्याह । पणोदमानदंडानां तुर्यांशे ऽपि च काकिनीति । आढकस्य पंचाशत्तमो भाग उदमानं । उक्तं च गणितावल्याम् । कुल्या स्यादष्टभिर्दोङ्गोणपादेन चाढकः । अतो ऽर्धशतिको भाग उदमानमुदाहृतमिति । चूर्णिः चूर्णिका । शाणी शणपटविशेषः । “निकष इति स्वामी ।" दुणी कर्णजलौका । “ Tणी कूयाँ जलद्रोण्यामिति हैमः ।" दरत् म्लेच्छजातिः । सातिर्दानावसानयोः । कथा प्रावरणांतरम् । “कंथा मृन्मयभित्तौ च तथा प्रावरणांतर इति मेदिनी।" आसंदी आसनभेदः “ वेत्रासनमिति प्रसिद्धम् ।" अंगविशेषो नाभिः । राज्ञां सभेति तत्पुरुषः । सभाराजेत्यत्र राजपर्यायस्यैवेष्यते इत्युक्तम् । तेन राजशब्दपूर्वकसभांततत्पुरुष क्लीबत्वस्य निषेधात् स्त्रीत्वम् ॥९॥ झल्लरी वाद्यभेदः। “ झलरी झल्लरी For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy