________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
माजरकोषे
[४. खर्गवर्गः धर्मराजः पितृपतिः समवर्ती परेतराट्
११५ कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ११६ कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ११७ राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः
११९ यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी
१२० प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
१२१ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः समीरमारुतमरुज्जगत्प्राणसमीरणाः नभस्वद्वातपवनपवमानप्रभञ्जनाः 'प्रकम्पनो महावातो झंझावातः सवृष्टिक'
** प्राणोऽपानः समानश्चोदानव्यानौ च वायवः १२६ 'हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ** उदानः कण्ठदेशे स्याध्यानः सर्वशरीरगः'
** इति २ अग्नेः कणिकायाम् । त्रिपु लिङ्गत्रये ॥-संतापः, संज्वरः, इति २ अग्नेः संतापे ॥-धर्मराजः, पितृपतिः, समवर्ती, परेतराद, कृतान्तः, यमुनाभ्राता, शमनः, यमराट्, यमः, कालः, दण्डधरः, श्राद्धदेवः, वैवखतः, अन्तकः, इति १४ यमस्य ॥-राक्षसः, कोणपः, क्रव्यात् , क्रव्यादः, अखपः, आशरः, रात्रिंचरः, रात्रिचरः, कर्बुरः, निकषात्मजः, यातुधानः, पुण्यजनः, नेऋतः, यातु, रक्षः, इति १५ राक्षसस्य । तत्र 'यातुरक्षसी' नपुंसके ॥-प्रचेताः, वरुणः, पाशी, यादसांपतिः, अप्पतिः, इति ५ वरुणस्य ॥ श्वसनः, स्पर्शनः, वायुः, मातरिश्वा, सदागतिः, पृषदश्वः, गन्धवहः, गन्धवाहः. अनिलः, आशुगः, समीरः, मारुतः, मरुत् , जगत्प्राणः, समीरणः, नभम्वान् , वातः, पवनः, पवमानः, प्रभजनः, इति २० वायोः ॥प्रागः, अपानः, समानः, उदानः, व्यानः, इमे ५ शरीरस्था वायुमेदाः॥
For Private and Personal Use Only