________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममरकोषे
[४. स्वर्गवर्गः
हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः शतकोटिः स्वरुः शम्बो दम्भोलिरशनियोः व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः पञ्चैते देवतरवोः मन्दारः पारिजातकः संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
१००
१०१ १०२ १०३
तस्य ॥-हादिनी, वज्रम् , कुलिशम् , भिदुरम् , पविः, शतकोटिः, खरुः, शम्बः, दम्भोलिः, अशनिः, इति १० वजस्य । तत्र 'हादिनी' स्त्री । वज्रम् , अस्त्री पुंनपुंसकलिङ्गम् । 'पथ्यादयः' पुंसि । 'अशनिः' द्वयोः स्त्रीपुंसयोः ॥व्योमयानम् , विमानः, इति २ विमानस्य । तत्र 'विमानः' पुंसि क्लीबे च ॥नारदाद्याः सुरर्षयः। 'आदि' शब्देन तुम्बुरु-भरत-पर्वत-देवलादयः ॥-सुधर्मा, देवसभा, इति २ देवसभायाः ॥-पीयूषम् , अमृतम् , सुधा, इति ३ अमृ. तस्य ॥ मन्दाकिनी, वियद्गङ्गा, वर्णदी, सुरदीर्घिका, इति ४ मन्दाकिन्याः ॥-मेरुः, सुमेरुः, हेमादिः, रनसानुः, सुरालयः, इति ५ कनकाचलस्य li-मन्दारः, पारिजातकः, संतानः, कल्पवृक्षः, हरिचन्दनम्, एते ५ देवतरवः । तत्र 'हरिचन्दनम्'. क्लीबपुंसोः ॥-सनत्कुमारः, वैधात्रः, इति २ सनकादेः ॥-वैद्यो; अश्विनीसुतौ, नासत्यौ, अश्विनी, दलौ, आश्विनेयो, इति ६ अश्विनीकुमारयोः । तावुभौ यमलो, अत एव द्विवचनम् ॥-उर्वशीमुखाः 'उर्वशी' इत्याद्या अप्सरसः, खर्वेश्याः, इति चोच्यन्ते । अत्र 'अप्सरसः'.
For Private and Personal Use Only