________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २१-४६] प्रथम काण्डम् 'नामिजन्माण्डजः पूर्वो निधनः कमलोद्भवः सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः' विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः दामोदरो हपीकेशः केशवो माधवः स्वभूः दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः पीताम्बरोऽच्युतः शाङ्गी विष्वक्सेनो जनार्दनः उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः वनमाली बलिध्वंसी कंसारातिरधोक्षजः विश्वंभरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः 'पुराणपुरुषो यज्ञपुरुषो नरकान्तकः जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः' वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः बलभद्रः प्रलम्बनो वलदेवोऽच्युताग्रजः रेवतीरमणो रामः कामपालो हलायुधः विधाता, विश्वमृद, विधिः, इति २० ब्रह्मणः ॥-विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शागी, विष्वक्सेनः, जनार्दमः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, देवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वंभरः, कैटभजित् , विधुः, श्रीवत्सलाञ्छनः, इति ३९ विष्णोः ॥--अस्य कृष्णस्य जनकः पिता वसुदेवः । वसुदेव एवानकदुन्दुमिः । २ कृष्णपितुः ॥-बलभद्रः, प्रलम्बन्नः, बलदेवः, अच्यु. ताप्रजः, रेवतीरमणः, रामः, कामपालः, हलायुधः, नीलाम्बरः, रोहिणेयः,
-
४६
For Private and Personal Use Only