________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोपे
[ ४. वर्गवर्गः विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः समन्तभद्रो भगवान् मारजिल्लोकजिजिनः षडभिज्ञो दशबलोऽद्वयवादी विनायकः मुनीन्द्रः श्रीधनः शास्ता मुनिः शाक्यमुनिस्तु यः स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः धाताजयोनि हिणो विरिञ्चिः कमलासन: स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृद्धिधिः
विद्याधराः, अप्सरसः, यक्षाः, रक्षांसि, गन्धर्वाः, किंनराः, पिशाचाः, गुह्यकाः, सिद्धाः, भताः, एता १० देवयोनिसंशकाः । जातावेकवचनानि ॥-असुराः, दैत्याः, दैतेयाः, दनुजाः, इन्द्रारयः, दानवाः, अशिष्याः, दितिसुताः, पूर्वदेवाः, सुरद्विषः, इत १० असुराणाम् ।।-सर्वज्ञः, सुगतः, बुद्धः, धर्मराजः, तथा. गतः, समन्तभद्रः, भगवान् , मारजित् , लोकजित् , जिनः, पडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, इति १८ बुद्धस्य ॥-शाक्यमुनिः, शाक्यसिंहः, सर्वार्थसिद्धः, शौद्धोदनिः, गौतमः, अर्कबन्धुः, मायादेवीसुतः, इति ७ बुद्धावान्तरभेदस्य शाक्यमुनेः ॥-ब्रह्मा, आत्मभूः, पुरज्येष्ठः, परमेष्टी, पितामहः, हिरण्यगर्भः, लोकेशः, स्वयंभूः, चतुराननः, धाता, अब्जयोनिः, द्रुहिणः, विरिञ्चिः, कमलासनः, स्रष्टा, प्रजापतिः, बंधाः,
For Private and Personal Use Only