________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममरको
[५. नानार्थवर्गः द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करी २७६४ रहःप्रकाशो वीकाशी निवेशो भृतिभोगयोः २७६५ कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोखिषु २७६६ पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च २७६७ दशावस्थानेकविधाप्याशा तृष्णापि चायता २७६८ वशा स्त्री करिणी च स्यादृग्ज्ञाने ज्ञातरि त्रिषु २७६९ स्यात्कर्कशः साहसिकः कठोरामहणावपि
२७७० प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः । २७७१ कोशोऽस्त्री कुङमले खगपिधानेऽथौं दिव्ययोः २७७२ सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ
२७७३ काकमत्स्यात्खगौ ध्वासने कक्षौ तु तृणवीरुधौ २७७४ अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने
२७७५ पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः २७७६ अभिमरो युद्धं तत्र स्पशः। पुञ्जमेषौ, 'आद्य'शब्दादृषभादिरपि राशिः।मस्करो वेणुः, कुलं च वंशः । रहो विजनः, प्रकाशश्च वीकाशः । मृतिवेतनम् , भोगश्व निर्वेशः । कृतान्ते यमे कीनाशः । क्षुद्रः कृपणः, कर्षक: कृषीवलः, एतयोः कीनाशस्त्रिषु । पदे व्याजे, लक्ष्ये निमित्ते च अपदेशः । अप्सु कुशम्। चकाराद्रामसुते, दर्भे च कुशः।जले क्लीबम् । अनेकविधबाल्यादिरूपा दशा। 'अपि'शब्दाद्वस्वान्तेऽपि दशाः । स्त्रियां बहुत्वे । आयता दीर्घा या तृष्णा स्पृहा सा, चकारादिगपि आशा । योषाहस्तिन्योर्वशा । ज्ञाने बुद्धो हक स्त्रियाम् । ज्ञातरि त्रिषु । साहसिको विवेकरहितः, अमस्णो दुःस्पर्शः, कठोरच कर्कशः । अतिप्रसिद्ध, 'अपि'शब्दादातपेऽपि प्रकाशः । अझे, शिशौ च बालिशः । कुमले मुकुले, खास्य पिधाने आच्छादने । अर्थोघे धनसमूहे । दिव्ये शपथमेदे कोशः । सुरमत्स्यावुभौ निमिषी स्तः । आत्मा क्षेत्रशः, मानवच पुरुषः, काकः, मत्स्यमत्ति खादति मत्स्यात् यो बकादिः खगः, स च ध्वाः । वीरुल्लता तृणं च कक्षः प्राहेऽश्वाविरज्वौ । रश्मी किरणे च अभीषुः । मर्दनं पीडा
For Private and Personal Use Only