________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २६३५-२६६०] तृतीयं काण्डम्
२२५ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् २६४८ उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः २६४९ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः २६५० कश्या प्रकोष्ठे हादेः काञ्च्यां मध्येभबन्धने २६५१ कृत्या क्रियादेवतयोस्त्रिषु भेये धनादिभिः २६५२ जन्यं स्याजनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च २६५३ गाहीनौ च वक्तव्यौ कल्यौ सन्जनिरामयौ २६५४ आत्मवाननपेतोऽर्थादथ्यौँ पुण्यं तु चार्वपि २६५५ रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि २६५६ न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते २६५७ निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ
२६५८ गुरू गीष्पतिपित्राद्यौ द्वापरौ युगसंशयौ । २६५९ प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती २६६० नामामिधा । शोभा कान्तिः तत्र अभिख्येति । आरम्भादयो नव शब्दाः क्रियाशब्दवाच्याः । सूर्यप्रियादिचतुष्के छायाशब्दः । हादेः राजगृहादेः प्रकोछेऽन्तहे । काञ्ची मेखला । मध्येभवन्धने वरत्रायां च कक्ष्या । क्रिया कर्म । देवतानामासन्नदैवतविशेषः धनादिमिर्भेये कृत्या । जनवादे निन्दितवादे। अपि'शब्दाघुद्धादी जन्यम् । अन्त्येऽधमे च जघन्यः । 'अपि'शब्दाच्छिश्ने । गाही. नयोः, चकाराद्वचनाहेऽपि वक्तव्यशब्दः । सजः सोपकरणः, निरामयो नीरोगः, उभौ कल्यौ । आत्मवान् । धीमान् अर्थाद्योऽनपेतः अपगतो न भवति स चार्थ्यः ! चारु सुन्दरम् , 'अपिशब्दात्सुकृतधर्मयोः पुण्यम् । प्रशस्तं रूपं यस्य तस्मिन् । 'अपि'शब्दाद्रजते रुप्यम् । वल्गुवाचि ‘अपि'शब्दादातर्यपि वदान्यः। न्याय्ये उचिते, 'अपि'शब्दादवलमेच मध्यम्। सुन्दरे सोमदैवते च सौम्यम्। निवहो वृन्दः, अवसरः प्रस्तावः, उभौ वारौ। प्रस्तरो दर्भमुष्टिदर्भशय्या वा। अध्वरः ऋतुरुभौ संस्तरौ । गीपतिः पिता, 'आद्य शब्दावेदशास्त्राध्यापकश्च गुरुः। युगसंशययोद्धापरः । मेदे सादेश्ये प्रकारः । इजितं चेष्टितम् । कृतिरप्याकारः।
म. को. स. १५
For Private and Personal Use Only