SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२४ www.kobatirth.org अमरकोषे Acharya Shri Kailassagarsuri Gyanmandir [ ५. नानार्थवर्ग: २६३५ २६३६ अत्ययोsतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च पश्चादवस्थायि बलं समवायश्च संनयौ संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः प्रायो भूम्यन्तगमने मन्युर्दैन्ये ऋतौ क्रुधि रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये धिष्ण्यं स्थाने गृहेभेनौ भाग्यं कर्म शुभाशुभम् कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः For Private and Personal Use Only २६३७ २६३८ २६३९ २६४० २६४१ २६४२ २६४३ २६४४ २६४५ २६४६ २६४७ अनयसंज्ञम् । अतिक्रमे उल्लङ्घने कृच्छ्रे दोषे दण्डे, 'अपि ' शब्दानाशेऽपि अत्ययः आपदादित्रये संपरायः । श्वशुरे, 'अपिशब्दात्पूजार्हेऽपि पूज्यः । सेनायाः पृष्ठभागे तिष्ठति यत्सैन्यं तत्पश्चादवस्थायि बलम् । समवायः समूहः । उभौ संनयौ । संघाते संनिवेशे स्थान विशेषे च संस्त्यायः । अमी विस्रम्भादयस्त्रयः प्रणयाः । विरोधे, 'अपि शब्दादुन्नत्यामपि समुच्छ्रयः । यस्य मत्स्यादेर्यो जलादिर्शातो नित्यसेवितस्तस्य तत्र विषयः । शब्दादिकाः शब्दस्पर्शरूपरसगन्धाश्च विषयाः । निर्यासः क्वाथरस:, 'अपि शब्दाद्विलेपनादौ कषायः । सभायां आश्रये च प्रतिश्रयः । भूम्नि बाहुल्ये । अन्तो नाशो गम्यतेऽनेन तत्र प्रायः । ऋतौ यज्ञे कोपे च मन्युः । रहस्यं, गोप्यं, उपस्थं च गुह्यम् । शपथः । पथ्यमृतं च सत्यम् । बलं सामर्थ्यम् । प्रभावस्तेजोविशेषः, तत्र वीर्यम् । भव्ये सत्त्वे गुणाश्रये पृथिव्यादौ द्रविणे च द्रव्यम् । स्थाने गृहे मे नक्षत्रे अग्नौ वहौ च धिष्ण्यम् । शुभाशुभमिति शुभमशुभं वा जन्मान्तरीयं यत्कर्म तद्भाग्यमित्युच्यते, ऐश्वर्येऽपि । कशेरुहेन्रोः गाङ्गेयम् । दन्तिका निकुम्भः । 'अपिशब्दादग्निशिखा गुडूच्यपि विशल्या । श्रीलक्ष्मीः गौरी व वृषाकपायी ।
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy