________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् शरणं गृहरक्षित्रोः श्रीपर्ण कमलेऽपि च विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि प्राण्युत्पादे संसरणमसंबाधचमूगतौ घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः प्रवणं क्रमनिम्नो प्रह्वे ना तु चतुष्पथे संकीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् 'सेतौ च वरणो वेणी नदीभेदे कचोच्चये'
[ ५.
For Private and Personal Use Only
नानार्थवर्ग:
२४३७
२४३८
२४३९
२४४०
२४४१
२४४२
२४४३
२४४४
२४४५
२४४६
२४४७
२४४८
**
पानेच्छा । उमे तृष्णे । जुगुप्सा निन्दा करुणा च घृणा । वणिक्पथे पण्यवीथ्यां आपणे पण्ये च विपणिः । सुरा मद्यम् । प्रत्यक् प्रतीची दिक् । उमे वारुण्यौ । इभ्यां हस्तिन्यां करेणुः । स्त्रीलिङ्गा । इभी हस्तिनी । करेणुर्ना पुंल्लिङ्गः । बलं पराक्रमः । धनं च द्रविणम् । गृहे रक्षितरि शरणम् । कमले चकारादग्निमन्ये च श्रीपर्णम् । विषं अभिमरो युद्धम् । लोहं च तीक्ष्णम् । लीचमू । खरे तिग्मे त्रिषु । हेतुर्धूमादिः । मर्यादा सीमा । इयता परिच्छेदः । प्रमाता ज्ञाता एष्वर्थेषु प्रमाणशब्दो वर्तते । साधने क्रियासिद्धी प्रकृष्टो हेतुः साधकतमं करणमिति । गात्रेन्द्रियेषु 'अपि ' शब्दात्कर्मादि । प्राणिनामुत्पादे जन्मनि । असंबाधचमूगतौ निर्बाध सैन्यगमने घण्टापथे च संसरणम् । वान्तान्ने भुक्तोज्झितान्ने उन्नये जलपात्रादेरूर्ध्वनयने उन्मूलिते च उद्भिरणम् । अतः परं वक्ष्यमाणा णान्तशब्दास्ते त्रिषु । पशुशृङ्गं चेभदन्तश्च तयोः विषाणम् । क्रमेण निना सा चासौ उर्वी च पृथ्वी तत्र । प्रह्ने नम्रे चतुष्पथे प्रवणः । पुंस्येव । निचितो व्याप्तः । अशुद्धः अमित्रः । उमे संकीर्णौ । शून्यं निराश्रयो देशः । ऊषरं स्थलमेदः तदि
I