________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्रयः २४१३-२४३६ ] तृतीयं काण्डम्
भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे कणोऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च मौन्य द्रव्याश्रिते सत्त्वशौर्य संध्यादिके गुणः निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे अरुण भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याज रखे रणः ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः
२०७
For Private and Personal Use Only
२४२५
२४२६
२४२७
२४२८
२४२९
२४३०
२४३१
२४३२
२४३३
२४३४
२४३५
२४३६
च दृढः । विन्यस्ते संहते च व्यूढः । अर्भके स्त्रैणगर्भे च भ्रूणः । वलिपुत्रे शरे च बाणः । अति सूक्ष्मवस्तुनि धान्यांशे च कणः । संघाते समूहे । प्रमथे रुद्रानुचरे च गणः । द्यूतमक्षादिभिः क्रीडा । आदिना मेषकुक्कुटादियुद्धादिकं तत्र उत्सृष्टे न्यस्तार्थे । भृतौ वेतने मूल्ये विक्रेयवस्तुद्रव्ये धने काकिणीचतुष्टये च पणः । मांय ज्यायां द्रव्याश्रिते रसगन्धादौ । 'आदि' शब्दस्य प्रत्येकं संबन्धात्सत्त्वरजआदौ शौर्यचातुर्यादौ संधिविग्रहादौ इन्द्रिये च गुणः । निर्व्यापारस्थितौ तूष्णीमधःस्थाने कालविशेषे मुहूर्तस्य द्वादशे भागे उत्सवे पुत्रजन्मादौ क्षणः । विप्रक्षत्रियादी शुक्लपीतादौ स्तुतौ स्तवे च वर्णः । अक्षरे वर्ण क्लोबे वा पुंसि । भास्करे सूर्ये । 'अपि’शब्दात्सूर्यसारथौ च । सोऽरुणशब्दः वर्णमेदे, त्रिषु स्तम्भादौ स्थेयुषि शर्वे च स्थाणुः । काके 'अपिशब्दादश्वत्थाम्नः पितरि परिमाणविशेषे च द्रोणः । आजी युद्धे रवे शब्दे च रणः । श्रेष्ठे नापिते प्रामाधिपे च ग्रामणीः । मेलोनि भ्रुवोरन्तरावर्ते च ऊर्णा । मृगी हेनः सुवर्णस्य प्रतिमा या चहरिता हरिद्वर्णा सा हरिणी । पाण्डौ पाण्डुरवर्णे चकारात् मृगमेदे वेश्मनो गृहस्य स्तम्मे स्थूणा । 'अपि ' शब्दाोहस्य प्रतिमायाम् । स्पृहा वाञ्छा । पिपासा