________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
१ परकोषे
५. नानार्थवर्गः
मूल्ये पूजाविधावर्षोऽहोदुःखव्यसनेष्वघम् २३८९ त्रिविष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृशुजः विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः २३९१ मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु २३९२ अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् 'प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः
* * परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः' केकिताावहिभुजौ दन्तविप्राण्डजा द्विजाः २३९४ अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः २३९५ धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् २३९६ वलजे क्षेत्रपूारे वलजा वल्गुदर्शना
२३९७ समे आमांशे रणेऽप्याजिः प्रजा स्यात्संततो जने २३९८ अब्जौ शङ्कशशाङ्कौ च स्वके नित्ये निजं त्रिषु २३९९ ओघः । मूल्ये पण्ये, पूजोपहारे चार्घः । अंहः पापम् , दुःखं जरामरणादिकम् , व्यसनं मृगयाछूतादि, विपद्रागद्वेषादि वा तत्र अघम् । इष्टे अल्पे च लघुः । त्रिषु । विशक्यं, मृद्भेदो मृद्विशेषः, दृक् नेत्ररोगः पटलप्रायः, एते त्रयः काचाः । विपर्यासे वैपरीत्ये, विस्तरे चात्प्रतारणे प्रपञ्चः । पावकेऽमौ शुचिः । पुंसि । मास्याषाढे, अमात्ये सचिवे, अत्युपधे, मेध्ये पवित्रे, सिते शुक्ने, च शुचिः त्रिषु । स्पृहायामत्यासत्तौ गभस्तौ किरणे चकाराद्दीप्तौ शोभायां च रुचिः । केकिताझ्यौँ मयूरगरुडौ अहिभुजौ । दन्तः । विप्रेत्युपलक्षणं क्षत्रवैश्ययोः, अण्डजाः पक्षिणः, एते द्विजाः । विष्णुहरी, छागो बस्तः, एते अजाः । गोष्ठं गोस्थानकम् , अध्वा मार्गः, निवहः संघः, एते ब्रजाः । जिनो बुद्धः, यमः, एतयोः धर्मराजशब्दः । दन्तिदन्ते कुजः। 'अपि'शब्दान्निकुञ्जऽपि । पुनपुंसकलिङ्गः । क्षेत्रे नगरद्वारे च वलजम् । वल्गुदर्शना वलजा । समे क्षमाशे भूभागे, रणे संग्रामे आजिरिति । संततिरपत्यम् , जनेऽपि प्रजा । शङ्खशशाइयोः चकाराद्धन्वन्तरावजः । खके आत्मीये नित्ये चिरस्थिते निजः । त्रिषु ।
For Private and Personal Use Only