________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
भमरकोपे
[४. संकीर्णवर्गः
२२७४
२२७५ २२७६
निगादो निगदे मादो मद उद्वेग उद्भमे विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवी बन्धनं प्रसितिश्चारः स्पर्शः स्पष्टोपतप्तरि निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् परिणामो विकारो द्वे समे विकृतिविक्रिये अपहारस्त्वपचयः समाहारः समुच्चयः प्रत्याहार उपादानं विहारस्तु परिक्रमः अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः
२२७७ २२७८ २२७९ २२८० २२८१ २२८२ २२८३ २२८४
निगादः, निगदः, इति २ कथनस्य ॥-मादः, मदः, इति २ हर्षस्य ॥उद्वेगः, उद्रमः, इति २ उद्वेजनस्य ॥--विमर्दनम् , परिमलः, इति २ कुल मादिमर्दनस्य ॥ अभ्युपपत्तिः, अनुग्रहः, इति २ अङ्गीकारस्य । ततो. ऽनुग्रहाद्विरुद्धो निग्रहः स्यात् १ ॥-अभियोगः, अभिग्रहः, इति २ कलहाहा. नस्य ॥ मुष्टिबन्धः, संग्राहः, इति २ मुष्टिना दृढग्रहणस्य ॥-डिम्बः, डमरः, विप्लवः, इति ३ नरलुण्ठनादेरुपसर्गविशेषस्य ॥-बन्धनम्, प्रसितिः, चारः, इति ३ बन्धनस्य ॥-स्पर्शः, स्प्रष्टा, उपतप्ता, इति ३ उपतापाख्यरोगविशेषस्य ॥ -- निकारः, विप्रकारः, इति २ अपकारस्य ॥-आकारः, इङ्गः, इङ्गितम्, इति ३ अभिप्रायानुरूपचेष्टितस्य ॥ -परिणामः, विकारः, इति २ प्रकृतेरन्यथाभावे ॥-विकृतिः, विक्रिया, इति २ विरुद्धक्रियायाः ॥-अपहारः, अपचयः, इति २ अपहरणस्य।
-समाहारः, समुच्चयः, इति २ राशीकरणस्य ॥-प्रत्याहारः, उपादानम्, इति २ इन्द्रियाकर्षणस्य ॥-विहारः, परिक्रमः, इति २ पल्यां गतेः॥
-अभिहारः, अभिग्रहणम्, इति २ चौर्यकरणस्य ॥-निर्हारः, अभ्यवकर्षणम्, इति २ शल्यादेनिष्कासनस्य ॥-अनुहारः, अनुकारः, इति २
For Private and Personal Use Only