________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२२
पतयः २२०५-२२२७] तृतीय काण्डम् पक्कं परिणते गून हन्ने मीढं तु मूत्रिते
२२१७ पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते
२२१८ दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽदितः २२१९ ज्ञप्तस्तु ज्ञपिते छन्नश्छादिते पूजितेऽञ्चितः
२२२० पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः २२२१ अष्टप्लष्टोपिता दग्धे तष्टत्वष्टौ तनूकृते वेधितच्छिद्रितौ विद्ध विन्नवित्ती विचारिते २२२३ निष्प्रभे विगतारोको विलीने विद्रुतद्रुतौ
२२२४ सिद्धे निवृत्तनिष्पन्नौ दारिते भिन्नभेदितौ
२२२५ ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते
२२२६ स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् २२२७ न तु वाते । गते अनिले निर्वात इति १ ॥–पक्वम् , परिणतम् , इति २ पाकं प्राप्तस्य ॥--गूनम् , हन्नम् , इति २ कृतपुरीषोत्सर्गस्य ॥-मीढम् , मूत्रितम् , इति २ कृतमूत्रोत्सर्गस्य ॥-पुष्टम् , पुषितम् , इति २ कृतपोषणस्य ॥ ---सोढम् , क्षान्तम् , इति २ शमां प्रापितस्य ॥-उद्वान्तः, उद्गतः, इति २ वमनेन त्यक्तस्यान्नादेः॥ दान्तः, दमितः, इति २ दमं प्रापितस्य ॥ शान्तः, शमितः, इति २ शमनं प्रापितस्य ॥ प्रार्थितः, अर्दितः, इति २ याचितस्य ॥-ज्ञप्तः, ज्ञपितः, इति २ बोधं प्रापितस्य ॥ छन्नः, छादितः, इति २ आच्छादितस्य ॥-पूजितः, अश्चितः, इति २ पूजितस्य ॥पूर्णः, पूरितः, इति २ पूर्णस्य ॥ क्लिष्टः, क्लिशितः, इति २ केशं प्राप्तस्य ।। अवसितः, सितः, इति २ समाप्तस्य ॥-पुष्टः, पुष्टः, उषितः, दग्धः इति ४ दग्धस्य ॥--तष्टः, त्वष्टः, तनूकृतः, इति ३ शनणाल्पीकृतस्य। वेधितः, छिद्रितः, विद्धः, इति ३ विद्धस्य ॥-विन्नः, वित्तः, विचारितः, इति ३ प्राप्तविचारस्य ।।-निष्प्रभः, विगतः, अरोकः, इति ३ दीप्तिहीनस्य ॥ विलीनः, विद्रुतः, द्रुतः, इति ३ द्रवीभूतस्य ॥-सिद्धः, निवृत्तः, निष्पन्नः, इति ३ सिद्धस्य ॥-दारितः, भिन्नः, भेदितः, इति ३ मेदं प्रापितस्य ।।-ऊतम् , स्यूतम् , उतम् , इति ३ तन्तुसंतते ॥-अर्हितम् , नमस्थितम् , नमसितम् ,
For Private and Personal Use Only