________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्क्लमः २०५८-२०८१]
तृतीयं काण्डम्
सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः कामयिताऽभीकः कमनः कामनोऽभिकः विधेयो विनयग्राही वचनेस्थित आश्रवः वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः आशंसुराशंसितरि गृहयालुर्ग्रहीत रि श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्धनः
१७७
For Private and Personal Use Only
૨૦૦
२०७१
२०७२
२०७३
२०७४
२०७५
२०७६
२०७७
२०७८
२०७९
२०८०
२०८१
,
—विलक्षः,
इति २ अतितृष्णाशीलस्य || सोन्मादः उन्मदिष्णुः, इति २ उन्मादशीलस्य ॥ - - अविनीतः समुद्धतः, इति २ दुर्विनीतस्य ॥ मत्तः, शौण्डः, उत्कटः, क्षीब:, इति ४ मत्तस्य ॥ - कामुकः, कमिता, अनुकः, कम्रः, कामयिता, अभीकः, कमनः, कामनः, अभिकः, इति ९ कामुकस्य ॥ विधेयः, विनयग्राही, वचनेस्थितः, आश्रवः, इति वचनग्राहिणि ॥ वश्यः प्रणेयः, इति २ वशंगतस्य ॥ - निभृतः, विनीतः, प्रश्रितः, इति ३ विनीतस्य ॥ - धृष्टः, धृष्णक्, वियातः, इति ३ अविनीतस्य ॥ -- प्रगल्भः, प्रतिभान्वितः इति २ सप्रतिभस्य ॥ अधृष्टः, शालीन:, इति २ सलज्जस्य ॥ - विस्मयान्वितः इति २ प्राप्ताश्चर्यस्य ॥ अधीरः, कातरः, इति २ भयक्षुपिपासादिव्याकुलस्य ॥ - त्रस्तः, भीरुः, भीरुकः, मीलुकः, इति ४ भयशीलस्य ॥ -- आशंसुः, आशंसिता, इति २ वाञ्छाशीलस्य ॥ - गृहयालुः, ग्रहीता, इति २ ग्रहणशीलस्य । श्रद्धया युक्ते श्रद्धालुरिति १ ॥ - पतयालुः, पातुकः, इति २ पतनशीलस्य ॥ - लज्जाशीलः, अपत्रपिष्णुः, इति २ लोकलज्जायुक्तस्य ॥ - - वन्दारुः, अभिवादकः, इति २ वन्दनशीलस्य ॥ - शरारुः, धातुकः, हिंस्रः, इति ३ हिंसाशीले ॥ - वर्धिष्णुः, वर्धनः, इति २ स. को. स. १२
,