SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्तयः १४६३-१४८७] द्वितीय काण्डम् राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् मन्त्री घीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः महामात्राः प्रधानानि पुरोधास्तु पुरोहितः द्रष्टरि व्यवहाराणां प्राड्रिवाकाक्षदर्शकौ प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः अन्तःपुरे त्वधिकृतः स्यादन्तर्वेशिको जनः सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः विषयानन्तरो राजा शत्रुर्मित्रमतः परम् उदासीनः परतरः पाणिग्राहस्तु पृष्ठतः १२९ For Private and Personal Use Only १४७+ १४७६ १४७० १४७८ १४७९ १४८० १४८१ १४८२ १४८३ १४८४ १४८५ १४८६ १४८७ 1 मिति १ | क्षत्रियाणां गणे राजन्यकमिति १ ॥ -- मन्त्री, धीसचिवः, अमात्यः, , इति ३ बुद्धिसहायस्य । ततो धीसचिवादन्ये कर्मोपयुक्ताः सचिवाः कर्मसचिवाः स्युरिति १ ॥ - महामात्राः, प्रधानानि, इति २ मुख्यानां राजसहायानाम्॥पुरोधाः, पुरोहितः, इति २ व्यवहाराणां निर्णेतरि ॥ - प्राह्निवाकः, अक्षदर्शकः, इति २ प्राद्विवाकस्य ॥ - प्रतीहारः, द्वारपालः, द्वास्थः, द्वास्थितः, दर्शकः, इति ५ द्वारपालस्य ॥ - रक्षिवर्गः, अनीकस्थः, इति २ राजरक्षकगणस्य ॥ अध्यक्षः, अधिकृतः, इति २ अध्यक्षस्य । एकस्मिन् ग्रामे अधिकृतः स्थायुकः स्यात् १। भूरिषु ग्रामेष्वधिकृतो गोप इति १ ॥ - भौरिकः, कनकाध्यक्षः, इति २ स्वर्णाध्यक्षस्य ॥ रूप्याध्यक्षः, नैष्किकः, इति २ रुप्याधिकृतस्य ॥ अन्तःपुरेऽधिकृतो जनः अन्तर्वेशिकः स्यात् १ ॥ - सौविदलाः, कचुकिनः, स्थापत्याः, सौविदाः, इति ४ राजसन्निधिवर्तिवेत्रधारस्य ॥ - शण्ढः, वर्षवरः, इति २ अन्तःपुरचारिणः क्लीवमात्रस्य ॥ - सेवकः, अर्थी, अनुजीवी, इति ३ सेधकस्य । विषयात् स्वदेशात् अनन्तरो राजा शत्रुः स्यात् १ । अतः शत्रोः परं मित्रम् १ | पतरः राजा उदासीनः स्यात् १ । पृष्ठतः वर्तमानो राजा पाणिग्राहः १ ॥-म. को. स. ९
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy