________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२८
Acharya Shri Kailassagarsuri Gyanmandir
अमरको
परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिग्रहात् परिवित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ तथा परिणयोद्वाहोपयामाः पाणिपीडनम् व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये
९. क्षत्रियवर्गः
मूर्धाभिषितो राजन्यो बाहुजः क्षत्रियो विराट् राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम्
९. क्षत्रियवर्गः
१४६३
१४६४
१४६५
१४६६
१४६७
१४६८
For Private and Personal Use Only
१४६९
१४७०
१४७१
१९४७२
१४७३
१४७४
,
न्युप्तेंऽशुमानुदेति सोऽभ्युदितः । ज्येष्ठे भ्रातर्यकृतदारपरिग्रहे सति कृतदारपरिग्रहः कनिष्ठः परिवेत्ता स्यात् १ । तस्य परिवेत्तुर्ज्यायान् ज्येष्ठः परिवित्तिः स्यात् १| विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम् इति ६ विवाहस्य ॥–व्यवायः, प्राम्यधर्मः, मैथुनम् निधुवनम् रत्मू, इति ५ मैथुनस्य ॥ धर्मः वेदविहितो यागादिः, कामः यथाविधि स्त्रीसेवनम् अर्थः धनम्, एभिस्त्रिभिः समुदितस्त्रिवर्गः १। समोक्षकैः धर्मार्थकाममोक्षैः समुदितवतुर्वर्ग इति १ | तेर्धर्मादिभिः सबलैश्चतुर्भद्रमिति १| वरस्य स्निग्धा वयस्याः जन्याः स्युः ॥
1
१४६९-१७०७ मूर्धाभिषिक्तः, राजन्यः, बाहुजः, क्षत्रियः, विराट् इति ५ क्षत्रियस्य ॥ --- राजा, राट्, पार्थिवः, क्ष्माभृत्, नृपः, भूपः, महीक्षित, इति राज्ञः । प्रणता अशेषसामन्ता यस्य स राजा अधीश्वर इति १ । चक्रवर्ती, सार्वभौमः, इति २ आसमुद्र क्षितीशस्य । तदन्यो नृपो मण्डलेश्वर इति १ । राजसूयाख्यऋतु विशेषेण येनेष्टं, द्वादशमण्डलस्येश्वरश्व यः, यश्च स्वाज्ञया सर्वभूपान् शास्ति, ईदृशविशेषणत्रयेण विशिष्टो राजा सम्राट् स्यात् १ । नृपतीनां गणे राजक