________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरको
११८
[७. मनुष्यवर्गः कर्पूरागरुकस्तूरीककोलैर्यक्षकर्दमः
१३३९ गात्रानुलेपनी वर्तिर्वर्णकं स्थाद्विलेपनम्
१३४० चूर्णानि वासयोगाः स्यु वितं वासितं त्रिषु १३४१ संस्कारो गन्धमाल्याधैर्यः स्यात्तदधिवासनम् १३४२ माल्यं मालाम्रजौ मूर्ध्नि केशमध्ये तु गर्भकः १३४३ प्रचष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् १३४४ प्रालम्बमृजुलम्बि स्यात् कण्ठाद्वैकक्षिकं तु तत् १३४५ यत्तिर्यविक्षप्तमुरसि शिखास्वापीडशेखरौ रचना स्यात्परिस्यन्द आभोगः परिपूर्णता १३४७ उपधानं तूपबर्हः शय्यायां शयनीयवत्
१३४८ शयनं मञ्चपर्यङ्कपल्यङ्काः खट्या समाः
१३४९ गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् जातीफलस्य ॥-कर्पूरादिभिः समभागैः पिण्डीकृतो लेपविशेषो यक्षकर्दम इति १ ॥-गात्रानुलेपनी, वर्तिः, वर्णकम् , विलेपनम् , इति ४ गात्रलेपनद्रव्यस्य ॥-चूर्णम् , वासयोगः, इति २ पटवासादिचूर्णमात्रस्य॥-भावितम् , वासितम् , इति २ गन्धद्रव्येण वासितस्य वस्तुनः। त्रिषु । गन्धमाल्यधूपादिभिर्यः संस्कारः सौरभाधानं तदधिवासनमिन्युच्यते १॥-माल्यम् , माला, सक्, इति ३ मूनि धृतायाः कुसुमावलेः। केशमध्ये धृता माला गर्भक इत्युच्यते । यन्माल्यं शिखायां लम्बमानं तत् प्रभ्रष्टकमिति १ । पुरोन्यस्तं ललाटपर्यन्तं क्षिप्त ललामकमिति १ । यन्माल्यं कण्ठाजुलाम्ब सरलं लम्बमानं तत् प्रालम्बमिति १ । यन्माल्यं तिर्यगुपनीतमन्जु उरसि क्षिप्तं तत् वैकक्षिकमिति १ ॥-आपीडः, शेखरः, इति २ शिखासु न्यस्तमाल्यमात्रस्य ॥-रचना, परिस्यन्दः, इति २ माल्यादिरचनायाः ॥-आभोगः, परिपूर्णता, इति २ सर्वोपचारपरिपूर्णतायाः॥-उपधानम् , उपबर्हः, इति र उच्छीर्षस्य । शय्या, शयनीयम् , शयनम्, इति ३ शय्यायाः ॥-मञ्चः, पर्यः, पल्यङ्कः, खट्वा, इति ४ खवायाः॥-गेन्दुकः, कन्दुकः, इति २ कन्दुकस्य ॥-दीपः, प्रदीपः, इति २
१३५०
For Private and Personal Use Only