________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
अमरकोषे
[५. मनुष्यवर्गः प्रादेशतालगोकर्णास्तर्जन्यादियुते तते
१२४० अङ्गुष्ठे सकनिष्ठे स्याद्वितस्ति-दशाङ्गुलः १२४१ पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गलौ
१२४२ द्वौ संहतो संहतलः प्रतलौ वामदक्षिणौ
१२४३ पाणिनिकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् १२४४ प्रकोष्ठे विस्तृतकरे हस्तो मुश्या तु बद्धया १२४५ स रत्निः स्यादरनिस्तु निष्कनिष्ठेन मुष्टिना १२४६ व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् १२४७ ऊर्ध्वविस्तृतदो पाणिनृमाने पौरुषं त्रिषु
१२४८ कण्ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि १२४९ कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका १२५० वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्
१२५१ नखरः, इति ४ नखस्य ॥ नखरः, नखः, द्वौ पुंसि क्लीबे च ॥-तर्जनीसहितापृष्ठे विस्तृते प्रादेशः १। मध्यमासहिताङ्गुष्टविस्तारे तालः १ । अनामिकायुतेऽङ्गुष्ठे गोकर्णः । कनिष्ठासहितेऽङ्गुष्ठे विस्तृते वितस्तिः द्वादशाङ्गुलः १ ॥-चपेटः, प्रतलः, प्रहस्तः, इति ३ विस्तृताङ्गलिके पाणी । वामदक्षिणी द्वौ प्रतली संहतो चेत् संहतलः स्यात् १। निकुब्जो निःशेषेण कुब्जीकृतः पाणिः प्रसूतिः स्यात् १। द्वौ द्वौ प्रसृती संहता चेदअलिरियेकं पुंसि । विस्तृतः करो यत्र तादृशे प्रकोष्ठे कूपराधोभागे हस्त इति १ । स तु बद्धया मुष्टयोपलक्षितः रत्निरिति १ । निष्कनिष्ठेन विस्तृतकनिष्टेन मुष्टिनोपलक्षितो हस्तः अरनिरिति १ । तिर्यक् ततयोविस्तृतयोः करसहितयोर्बाह्वोरन्तरं व्यामः १। ऊर्ध्व विस्तृतदोषी भुजौ पाणी च येन तस्य नुः पुंसो यन्मानं तत्र पौरुषमिति १ । त्रिषु॥-कण्ठः, गलः, इति २ ग्रीवाग्रभागस्य ॥-प्रीवा, शिरोधिः, कंधरा, इति ३ कंधरायाः, सा ग्रीवा तिसभी रेखाभिर्विशिष्टा कम्वुग्रीवा स्यादिति १ ॥-अवटुः, घाटा, कृकाटिका, इति३ग्रीवाशिरःसंधेः पश्चाद्भागस्य। वक्त्रम् ,आस्यम् , वदनम् ,
For Private and Personal Use Only