________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पछ्यः १२१७-१२३९] द्वितीयं काण्डम्
चूचुकं तु कुचाग्रं स्यान्न ना कोडं भुजान्तरम् १२२८ उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः १२२९ स्कन्धो भुजशिरोंसोऽस्त्री संधी तस्यैव जत्रुणी १२३० बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः । १२३१ मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः १२३२ भुजबाहू प्रवेष्टो दोः स्यात् कफोणिस्तु कूर्परः १२३३ अस्योपरि प्रगण्डः स्यात् प्रकोष्ठस्तस्य चाप्यधः १२३४ मणिबन्धादाकनिष्ठं करस्य करभो बहिः
१२३५ पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी १२३६ अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी १२३७ मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् १२३८ पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् १२३९ जठरस्य ॥-स्तनः, कुचः, इति २ वक्षोजस्य ।। चूचुकम् , कुचाग्रम् , इति २ स्तनाग्रस्य ॥ क्रोडम् , भुजान्तरम् , उरः, वत्सम् , वक्षः, इति ५ वक्षसि। तत्र कोडं न ना, किंतु स्त्रीनपुंसकयोः । तनोः शरीरस्य चरमं पश्चाद्भागः पृष्ठमिति १ ॥-स्कन्धः, भुजशिरः, अंसः, इति ३ भुजशिरसः । तस्य स्कन्धस्य संधी जत्रुशब्दवाच्या इति १ ॥-बाहुमूलं, कक्षः, इति २ कक्षस्य तयोरधोभागः पार्श्वमिति १ ॥-मध्यमम् , अवलग्नम् , मध्यः, इति ३ तनुमध्यस्य ॥-अस्त्रीति मध्यमादिशब्दत्रयेऽप्यन्वेति ॥ परी द्वौ भुज-बाहुशब्दो स्त्रीपुंसयोः ॥-भुजः, बाहुः, प्रवेष्टः, दोः, इति ४ भुजस्य ॥-कफोणिः, कूर्परः, इति २ कूपरस्य । अस्य कूर्परस्योपरिभागे प्रगण्ड इति १ । तस्य कूर्परस्थाधोभागे प्रकोष्ट इति १ । मणिबन्धमारभ्य कनिष्ठापर्यन्तं करस्य मांसलो बहिर्भागः करम इत्युच्यते १॥-पञ्चशाखः, शयः, पाणिः, इति ३ करस्य । -~-तर्जनी, प्रदेशिनी, इति २ अङ्गुष्टसमीपाडल्याः ।-अङ्गुली, करशाखा, इति २ अकुलीमात्रस्य । ता अनुल्यः, क्रमेण- अङ्गुष्ठः, प्रदेशिनी, मध्यमा, बनामिका, कनिष्ठिका, इति ५ । तत्रागुष्टः पुंसि ॥-पुनर्भवः, कररहः, नखः,
For Private and Personal Use Only