________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०४
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[ ७. मनुष्यवर्गः
११७२
११७३
११७४
११७५
११७६
जडुलः कालकः पिप्लस्तिलकस्तिलकालकः अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया भेषजौषध भैषज्यान्यगदो जायुरित्यपि स्त्री रुजा चोपतापरोगव्याधिगदामयाः क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः स्त्री क्षुत्तं क्षवः पुंसि कासस्तु क्षवथुः पुमान् शोफस्तु श्वयथुः शोथ: पादस्फोटो विपादिका किलाससिध्मे कच्छां तु पामपामे विचर्चिका कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् ११८० व्रणोऽस्त्रियामीर्ममरुः क्लीवे नाडीव्रणः पुमान् कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी
११७७
११७८
११७९
११८१
११८२
त्यर्थः ॥—–—जडुलः, कालकः, पिप्लुः, इति ३ कृष्णवर्णस्य देहगतचिह्नविशेबस्य ॥ — तिलकः, तिलकालकः, इति २ कृष्णतिलतुल्यस्य देहगतचिह्नस्य ॥ - अनामयम्, आरोग्यम्, इति २ रोगाभावस्य ॥ -- चिकित्सा, रुक्प्रतिक्रिया, इति २ रोगप्रतीकारस्य ॥ -- भैषजम्, औषधम्, भैषज्यम्, अगदः, जायुः, इति ५ औषधस्य ॥ - रुक्रू, रुजा, उपतापः, रोगः, व्याधिः, गदः, आमयः, इति ७ रोगमात्रस्य ॥ उमे स्त्रियौ ॥ -क्षयः, शोषः, यक्ष्मा, इति ३ क्षयरोगस्य ॥ प्रतिश्यायः, पीनसः, इति २ पीनसरोगस्य ॥ -- क्षुत् क्षुतम्, क्षवः, इति ३ श्रुतः । क्षुत् स्त्रियाम् ॥ कासः, क्षवथुः, इति २ कासरोगस्य । उभे पुंसि ॥ - शोफः, श्वयथुः, शोथ:, इति ३ शोधस्य ॥पादस्फोटः, विपादिका, इति २ पादस्फोटस्य ॥ - किलासम्, सिध्मम् इति २ सिध्मस्य ॥—कच्छूः, पाम, पामा, विचर्चिका, इति ४ खर्जूविशेषस्य । अत्र पामेत्येकं नान्तम् ॥—कण्डः, खर्जूः, कण्ड्या, इति ३ खवः । स्त्रीलिङ्गम् ॥ विस्फोटः, पिटकः, इति २ पिटकस्य । स्त्रियामपि पिटिका ॥ व्रणः, ईर्मम्, अरुः, इति ३ व्रणस्य । व्रणः पुंनपुंसकयोः । ईमें अरुः क्लीबे । यो व्रणः सदा गलति तत्र नाडीव्रण इत्युच्यते १ ॥ -- - कोठः, मण्डलकम्, कुष्ठम्, श्वित्रम् इति ४ कुष्ठस्य ॥ -
-
---
1
For Private and Personal Use Only