________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे [६. सिंहादिवर्गः समूरुश्चेति हरिणा अमी अजिनयोनयः
१००६ कृष्णसाररुरुन्यकुरङ्कुशम्बररोहिषाः
१००७ गोकर्णपृषतैणयरोहिताश्चमरो मृगाः गन्धर्वः शरभो रामः समरो गवयः शशः इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः १०१० "अधोगन्ता तु खनको वृकः पुंध्वज उन्दुर' उन्दुरुर्मूषकोऽप्याखुर्गिरिका वालमूपिका १०११ सरटः कृकलासः स्यान्मुसली गृहगोधिका
१०१२ लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः
१०१३ नीलगुस्तु कृमिः कर्णजलौकाः शतपद्युभे १०१४ वृश्चिकः शूककीटः स्यादलिगुणौ तु वृश्चिके १०१५ पारावतः कलरवः कपोतोऽथ शशादनः
१०१६ पत्री श्येन उलूकस्तु वायसारातिपेचको
१०१७ अमी ६ हरिणाः, वक्ष्यमाणाः कृष्णसारादयश्च अजिनयोनय उच्यन्ते । यत एते चर्मण्युपयुक्ताः ॥-कृष्णसारः, रुरुः, न्यथैः, रङ्घः, शम्बरः, रोहिषः, गोकर्णः, पृषतः, एणः, ऋश्यः, रोहितः, चमरः, इति १२ मृगाः मृगभेदाः, एकैकम् । गन्धर्वः, शरभः, रामः, सृमरः, गवयः, शशः, इति ६ मृगभेदाः ॥ मृगेन्द्रायाः सिंहाद्याश्चमरान्ता ये च वर्गान्तरे वक्ष्यमाणा गवाद्या गोहस्त्यश्वादयः ते सर्वे पशुजातयः पशुशब्दवाच्या इत्यर्थः ॥-उन्दुरुः, मूषकः, आखुः, इति ३ मूषकस्य ॥-गिरिका, बालमूषिका, इति २ स्वल्पमूषकजातेः॥-सरटः, कृकलासः, इति २ सरटस्य ॥ मुसली, गृहगोधिका, इति २ गृहगोधायाः॥लूता, तन्तुवायः, ऊर्णनाभः, मकेटकः, इति ४ ऊर्णनाभस्य । तत्र लूता नित्यं स्वी ॥-नीलङ्गुः, कृमिः, इति २ क्षुद्रकीटमात्रस्य ॥ - कर्णजलौकाः, शतपदी, इति २ कर्णजलौकायाः ॥-वृश्चिकः, शूककीटः, इति २ शूककीटस्य ॥-अलिः, द्रुणः, वृश्चिकः, इति ३ वृश्चिकस्य ।।-पारावतः, कलरवः, कपोतः, इति ३ पारावतस्य ॥–शशादनः, पत्री, श्येनः, इति ३ श्येनस्य ॥-उलूकः, वायसारातिः, पेचकः, इति ३ उलूकस्य ॥
For Private and Personal Use Only