________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९९५
९९६
९९७
९९८
पतयः ९८४-१००५] द्वितीयं काण्डम् मर्कटो वानरः कीशो वनौका अथ भल्लुके ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखगिनौ लुलायो महिषो वाहद्विषत्कासरसैरिभाः स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् त्रयो गौधेरगौधारगौधेया गोधिकात्मजे श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः मृगे कुरङ्गवातायुहरिणाजिनयोनयः ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु . कदली कन्दली चीनश्चमूरुप्रियकावपि
१००० १००१ १००२ १००३ १००४ १००५
मर्कटः, वानरः कीशः, वनौकाः, इति ९ वानरस्य ।।--भन्छुकः, ऋक्षः, अच्छभलः, भट्टकः, इति ४ अच्छभल्लस्य ॥-गण्डकः, खड्गः, खड्गी, इति ३ गण्डङ्गस्य ॥-लुलायः, महिषः, वाहद्विषत् , कासरः, सैरिभः, इति ५ महिषस्य ।।-शिवा, भूरिमायः, गोमायुः, मृगधूर्तकः, शृगालः, वञ्चकः, कोष्टा, फेरुः, फेरवः, जम्बुकः, इति १० जम्बुकस्य । 'शिवा'शब्दः स्त्रियामेव ॥ओतुः, बिडालः, मार्जारः, वृषदंशकः, आबुभुक् , इति ५ मार्जारस्य ॥--गौधारः, गोंधेरः, गोंधेयः, इति ३ स्थलगोधिकाया अपत्ये ॥-श्वावित् , शल्यः, इति २ शल्यस्य ॥ तस्य शल्यस्य लोम्नि शलली, शललम्, शलम्, इति ३ ॥-वातप्रमीः, मातमृगः, इति २ वातमृगस्य ॥-कोकः, ईहामृगः, वृकः, इति ३ वृकस्य ॥ मृगः, कुरङ्गः, वातायुः, हरिणः, अजिनयोनिः, इति ५ हरिणस्य ॥-एण्या हरिण्याश्चर्माद्यं ऐणेयमित्युच्यते । एणस्य तु चर्माद्यं ऐणमित्युच्यते । उभे ऐणेयम् , ऐणं च त्रिषु स्पष्टम् ॥-- कदली , कन्दली, चीनः, चमूरुः, प्रियकः, समूहः, इति ६ हरिणभेदाः ॥
For Private and Personal Use Only