________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९७४
९७६
९८१
पतयः ९६१-९८३] द्वितीयं काण्डम् ग्रन्थि। पर्वपरुषी गुन्द्रस्तेजनकः शरः ९७२ नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ९७३ इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः रसाल इक्षुस्तद्देदाः पुण्डूकान्तारकादयः
९७५ स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् अभयं नलदं सेव्यममृणालं जलाशयम्
९७७ लामज्जकं लघुलयमवदाहेष्टकापथे नडादयस्तृणं गर्मुच्छयामाकप्रमुखा अपि
९७९ अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ९८० पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् छत्राऽतिच्छत्रपालघ्नौ मालातृणकभूस्तृणे ९८२ शष्पं बालतृणं घासो यवसं तृणमर्जुनम् स्युरिति १ ॥-ग्रन्थिः, पर्व, परुः, इति ३ वंशादिअन्धेः । ग्रन्थिः पुंसि ॥गुन्द्रः, तेजनकः, शरः, इति ३ शरस्य ॥–नडः, धमनः, पोटगलः, इति ३धमनस्य ॥-इक्षुगन्धा, पोटगलः, बल्वजाः, इति ३ काशस्य । तत्र बल्वजा इत्येक पुंल्लिङ्गं बहुवचनान्तम् ॥-रसालः, इक्षुः, इति २ इक्षोः॥-पुण्डः, कान्तारकः, इति २ इक्षोर्भेदाः ॥ वीरणम् , वीरतरम् , इति २ तृणभेदस्य ॥-उशीरम् , अभयम् , नलदम् , सेव्यम् , अमृणालम् , जलाशयम् , लामजकम् , लघुलयम् , अवदाहम् , इष्टकापथम् , इति १० वीरँणमूलस्य ॥-नडादयः नड-काशादयः, तृणं तृणजातीया इत्यर्थः । ये च गर्मुच्छयामाकप्रमुखाः ॥ कुशम् , कुथः, दर्भः, पवित्रम्, इति ४ कुशस्य । तत्र कुशं क्लीब-पुंसोः ॥-कत्तृणम् , पौरम् , सौगन्धिकम् , ध्यामम् , देवजग्धकम् , रोहिषम् , इति ६ तृणभेदस्य ॥छत्रा, अतिछत्रः, पालघ्नः, मालातृणकम् , भूस्तृणम् , इति ५ वचाकृतेर्जलेतृणमेदस्य ॥–शष्पम् , बालतृणम् , इति २ कोमलतृणस्य ॥-घासः, यवसम् , इति २ गवादीनां भक्ष्यतृणस्य ॥--तृणम् , अर्जुनम् , इति २. तृणमात्रस्य
१ पेर. २ शर.३ देवनळ. ४ लन्हाळे, लवा. ५ ऊस. ६ काळा वाळा. ७ वीरणमूळ, (वाळा ). ८ तृणमेद. ९ तृणधान्यभेद. १०दर्भ ११ रोहिस गवत. १२ शेतगवत.
For Private and Personal Use Only