________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः ७७९-८०३] द्वितीयं काण्डम् अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता ७९२ सुमना मालती जातिः सप्तला नवमालिका
७९३ माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः ७९४ सहा कुमारी तरणिरम्लानस्तु महासहा
७९५ तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः
७९६ नीली झिण्टी द्वयोबाणा दासी चार्तगलश्च सा ७९७ सैरेयकस्तु झिण्टी स्यात्तस्मिन् कुरबकोऽरुणे ७९८ पीता कुरण्टको झिण्टी तस्मिन् सहचरी द्वयोः ७९९
ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् प्रतिहासशतप्रासचण्डातहयमारकाः करवीरे करीरे तु करग्रन्थिलावुभौ
८०२ उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ८०३ सा यूथिका पीता पीतपुष्पा चेत् हेमपुष्पिका स्यात् ॥ अतिमुक्तः, पुण्ड्रकः, वासन्ती, माधवी, लता, इति ५ कुन्दभेदस्य ॥-सुमनाः, मालती, जातिः, इति ३ जातेः। तत्र सुमनाः सान्तः॥-सप्तला ॥-नवमालिका, इति २ नवमालिकायाः ॥--माध्यम , कुन्दम्, इति २ कुन्दस्य ॥-रक्तकः, बन्धूकः बन्धुजीवकः, इति ३ बन्धूकस्य ॥-सहा, कुमारी, तरणिः, इति ३ कुमार्याः॥-अम्लानः, महासहा, इति २ महासहायाः॥-तत्राम्लाने शोणे रक्त कुरवक इत्येकम् ॥-तत्राम्लाने पीतवर्णे कुरण्टक इत्येकम् ॥-नीली नीलवर्णा या झिण्टी तत्र बाणा, दासी, आर्तगलः, इति ३ ॥ द्वयोरित्युक्तेर्वाण इत्यपि ॥-सैरेयकः, झिण्टी, इति २ झिंण्टीमात्रस्य॥तस्मिन्सरेयकेऽरुणे रक्तवर्णे कुरबक इत्येकम् ॥-या पीतपुष्पा झिण्टी सा कुरण्टक इत्युच्यते । तस्मिन्कुरण्टके सहचरीत्यपि । द्वयोरित्युक्तेः सहचर इत्यपि ॥-ओण्डुपुष्पम् , जपापुष्पम् , इति २ जपापुष्पस्य ॥-यत्तिलस्य पुष्पं तद्वज्रपुष्पसंज्ञकमेकम्॥प्रतिहासः, शतप्रासः, चण्डातः, हयमारकः, करवीरः, इति ५ करवीरस्य - करीरः, ऋकरः, ग्रन्थिलः, इति ३ कैरीरस्य॥-उन्मत्तः, कितवः, धूर्तः, धत्तूरः,
१ कस्तुरमोगरी. २ चमेली. ३ बटमोगरा. ४ दुपारी. ५ कटिशेवती, लहान रानशेवती. ६ आबोली. ७ कोरांटी. ८ जास्वंद. ९ कण्हेर. १० नेववी.
For Private and Personal Use Only