________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३४
६४३
अमरकोषे
[४. शैलवर्गः ४. शैलवर्गः महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः
६३५ लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ
६३६ अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः
६३७ हिमवान्निषधो विन्ध्यो माल्यवान् पारियात्रकः ६३८ गन्धमादनमन्ये च हेमकूटादयो नगाः
६३९ पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्
६४० कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ६४१ कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ६४२ उत्सः प्रस्रवणं वारिप्रवाहो निझरो झरः दरी तु कंदरो वा स्त्री देवखातबिले गुहा
६४४ ६३४-६४९. महीध्रः, शिखरी, माभृत् , अहार्यः, धरः, पर्वतः, अद्रिः, गोत्रः, गिरिः, ग्रावा, अचलः, शैलः, शिलोचयः, इति १३ पर्वतसामान्यस्य ॥लोकालोकः, चक्रवालः, इति २ सप्तद्वीपवत्या भूमेः प्राकारभूते गिरौ॥त्रिकूटः, त्रिककुत्, इति २ त्रिकूटाचलस्य ॥ अस्तः, चरमक्ष्माभृत् , इति २ अस्ताचलस्य ॥-उदयः, पूर्वपर्वतः, इति २ उदयाचलस्य ॥-हिमवान् , निषधः, विन्ध्यः, माल्यवान् , पारियात्रकः, गन्धमादनः, हेमकूटः, इति पर्वतविशेषाः । आदिना मलय-चित्रकूट-मन्दरादयः ॥-पाषाणः, प्रस्तरः, ग्रावा, उपलः, अश्मा, शिला, दृषत् , इति ७ पाषाणस्य । 'शिलादृपदौ' स्त्रियाम् ॥ - कूटः, शिखरम् , शृङ्गम् , इति ३ पुंनपुंसकलिङ्गं पर्वताग्रस्य ॥-प्रपातः, अतटः, भृगुः, इति ३ पर्वतात्पतनस्थानस्य ॥-अनितम्बो मध्यभागः कटक इत्युच्यते ॥-नुः, प्रस्थः, सानुः, इति ३ पुंनपुंसकलिङ्गानि समभूभागे पर्वतकदेशे ।।-उत्सः, प्रस्रवणम् , इति २ यत्र पानीयं निपत्य बहुलीभवति तस्य स्थानस्य ॥~वारिप्रवाहः, निझरः, झरः, इति ३ निर्झरस्य ।।—दरी, कंदरः, इति २ पर्वतस्य गृहाकारकृत्रिमविवरस्य ।
For Private and Personal Use Only