SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१७ ur ur १२० अमरकोषे [३. पुरवर्गः हादि धनिनां वासः प्रासादो देवभूभुजाम् ६११ सौधोऽस्त्री राजसदनमुपकार्योपकारिका ६१२ स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ६१३ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् ६१४ स्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् शुद्धान्तश्चावरोधश्च स्यादट्टः क्षोममस्त्रियाम् ६१६ प्रघाणप्रघणालिन्दा बहिरप्रकोष्ठ के गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे अधस्तादारुणि शिला नासा दारूपरि स्थितम् प्रच्छन्नमन्तारं स्यात् पक्षद्वारं तु पक्षकम् वलीकनीधे पटलप्रान्तेऽथ पटलं छदिः ६२१ गोपानसी तु वलभी छादने वक्रदारुणि ६२२ मण्डपः, जनाश्रयः, इति २ मण्डपस्य । तत्र 'मण्डपः' क्लीवपुंसोः ॥-धनिनां धनवतां वासो गृहं तत् हादि ॥--देवानां राज्ञां च गृहं प्रासाद इति ।सौधः, राजसदनम् , उपकार्या, उपकारिका, इति ४ राजगृहस्य ॥---स्वस्तिकादय ईश्वरसद्मनां राजगृहाणां प्रभेदाः स्युः । तत्र चतुारतोरणः स्वस्तिकः, उपर्युपरिगृहं सर्वतोभद्रः, वर्तुलाकृतिर्नन्द्यावर्तः, विस्तीर्णः सुन्दरो विच्छन्दकः ॥-भूभुजां राज्ञां ख्यगारं स्त्रीगृहं तत् अन्तःपुरम् , अवरोधनम् , शुद्धान्तः, अवरोधः, इति ४ ॥-अट्टः, क्षोमम्, इति २ हादिपृष्ठस्य ॥ प्रघाणः, प्रघणः, अलिन्दः, इति ३ द्वाराद्वहिर्यः प्रकोष्ठकस्तम्य ॥गृहावग्रहणी, देहली, इति २ गृहद्वाराधोभागस्य ।।-अङ्गणम् , चत्वरम् , अजिरम् , इति ३ प्राङ्गणस्य॥ शिला इति १ द्वारस्तम्भाधःस्थितकाष्ठस्य॥नासा इति १ द्वारस्तम्भोपरि स्थितस्य दारुणः॥--प्रच्छन्नम् , अन्तारम् , इति २ गुप्तद्वारस्य ॥----पक्षद्वारम् , पक्षकम् , इति २ पार्श्वद्वारस्य ॥--वलीकम् , नीध्रम्, इति २ पटलप्रान्ते गृहच्छादनस्य ॥-पटलम् , छदिः, इति २ छादनस्य। छदिः सान्तं स्त्रियाम् ॥-गोपानसी, वलभी, इति २ छादनाथ यद् For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy