________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पङ्कयः ५४९-५६६ ]
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं काण्डम्
द्वितीयं काण्डम् १. वर्गभेदाः वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः नृब्रह्मक्षत्रविट्शूद्रः साङ्गोपाङ्गेरि होदिताः २. भूमिवर्गः
भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः सर्वसहा वसुमती वसुधोर्वी वसुंधरा गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ' विपुला गहरी धात्री गौरिला कुम्भिनी क्षमा भूतधात्री रत्नगर्भा जगती सागराम्बरा' मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ऊपवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली
५३
५५८
५५९
For Private and Personal Use Only
५६०
५६१
५६२
५६३
***
**
५६४
५६५
५६६
५५८-५५९. इह वक्ष्यमाणेऽस्मिन्काण्डेऽङ्गैर्मृच्छाखानगरादिभिः, उपाङ्गैर्मृत्स्नावेशादिभिः सहितैः पृथ्वी-पुर-क्ष्माभृत् वनौषधि-मृग-नृ-ब्रह्म-क्षत्र-विट्शूद्र-शब्दैवर्ग उदिता वक्तुमारब्धाः । तत्र क्ष्माभृत शैलः । ' मृगादिभिः' इत्यादि - शब्देन पक्षिणां संग्रहः; यद्वा, - मृगानत्ति पुनः पुनः स मृगादी सिंहः, अस्मिन्नर्थे ताच्छील्ये णिनिः ॥
५६० - ५९३. भूः, भूमिः, अचला, अनन्ता, रसा, विश्वंभरा, स्थिरा, धरा, धरित्री, धरणिः, क्षोणिः, ज्या, काश्यपी, क्षितिः, सर्वसहा, वसुमती, वसुधा, उर्वी, वसुंधरा, गोत्रा, कुः, पृथिवी, पृथ्वी, क्ष्मा, अवनिः, मेदिनी, मही, इति २७ नामानि भूमेः ॥ – मृत्, मृत्तिका, इति २ मृदः ॥ -- मृत्सा, मृत्स्ना, इति २ प्रशस्तमृदः । प्रशस्ता मृत्तिका त्वित्यन्वयः ॥ – सर्वैः सस्यैराढ्या मृत्तिका र्चरेत्युच्यते ॥ कषः, क्षारमृत्तिका, इति २ क्षारमृत्तिकायाः ॥