________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acha
४२४
पतयः ४१२-४३३] प्रथमं काण्डम् कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ४२३ स्त्रीणां विलासविबोकविभ्रमा ललितं तथा हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ४२५ द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ४२६ व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ४२७ धर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमा स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् ४३० मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम् ४३१ क्रन्दितं रुदितं क्रुष्टं जम्भस्तु त्रिषु जम्भणम् विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
४२८ ४२९
०
اس
c
ام
c
اسم
0
प्रमादः, अनवधानता, इति २ कर्तव्यानवधानस्य ॥-कौतूहलम् , कौतुकम्, कुतुकम् , कुतूहलम् , इति ४ कौतुकस्य ॥-विलासः, बिब्योकः, [विव्वोकः] विभ्रमः, ललितम् , हेला, लीला, इति ६ स्त्रीगां शृङ्गारभावजाः, शृङ्गाररससमुद्भूताः क्रियाः चेष्टाः हावा उच्यन्ते॥-द्रवः, केलिः, परीहासः, क्रीडा, लीला, नर्म, इति ६ क्रीडामात्रस्य ॥-व्याजः, अपदेशः, लक्ष्यम् , इति ३ स्वरूपाच्छादनस्य ॥-क्रीडा, खेला, कूर्दनम् , इति ३ बाललीलायाः ॥--धर्मः, निदाघः, खेदः, इति ३ खेदस्य ॥-प्रलयः, नष्टचेष्टता, इति २ परिस्पन्दनाशस्य ॥-अवहित्था, आकारगुप्तिः, इति २ आकारगोपनस्य ॥ संवेगः, संभ्रमः, इति २ हर्षादिना कर्मसु त्वरणस्य ॥ सोत्प्रासः सामिप्रायो हास आच्छुरितकमुच्यते ॥–स हासो मनागीषच्चेत् स्मितमुच्यते ॥-स हासो मध्यमश्चेदनल्पाधिकस्तर्हि विहसितं स्यात् ॥-रोमाञ्चः, रोमहर्षणम् , इति २ रोमोद्गमस्य ॥-क्रन्दितम् , रुदितम् , कुष्टम् , इति ३ रुदितस्य ॥ जृम्भः, जृम्भणम् , इति २ जृम्भिकायाः। मुंभस्त्रिषु ॥–विप्रलम्भः, विसंवादः, इति २ वञ्चनायुक्तभाषणस्य ॥-रिङ्गणम . स्खलनम् , इति २ स्वधर्मादेश्चलनस्य
For Private and Personal Use Only