________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५
२५६
२५७ २५८
3
२५९
पक्रायः २४३-२६५] प्रथम काण्डम् संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः देवे युगसहस्र द्वे ब्राह्मः कल्पौ तु तौ नृणाम् मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि अस्त्री पङ्क पुमान्पाप्मा पापं किल्बिषकल्मषम् कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः स्यादानन्दथुरानन्दः शर्मसातसुखानि च श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्
२६० २६१
ur
२६२
ur
२६३ २६४
or
२६५
शीर्षादिमासानां षभियुगैर्युग्मैः क्रमाद्भवन्ति ॥-संवत्सरः, वत्सरः, अब्दः, हायनः, शरत् , समाः, इति ६ वर्षस्य । तत्र हायनान्ता अस्त्रियाम् । 'समाः' स्त्रियां बहुत्वे च ॥—मानुषेण मासेनकः पैत्रोऽहोरात्रः ॥-तथा मानुषेण वर्षेण देवतो देवानामहोरात्रः ॥~-मानुषाणां यत्कृतादि युगचतुष्टयं तद्देवं युगं ज्ञेयम् । एवं देवे द्वे युगसहस्रे ब्राह्मोऽहोरात्रः ॥-ये द्वे देवे युगसहस्रे तौ नृणां कल्पो; स्थितिप्रलयकालावित्यर्थः ॥ दिव्यानां युगानां या एकसप्ततिरेकाधिका सप्ततिस्तत् मन्वन्तरम् ॥-संवर्तः, प्रलयः, कल्पः, क्षयः, कल्पान्तः, इति ५ प्रलयस्य ॥--पङ्कम् , पाप्मा, पापम् , किल्बिषम् , कल्मषम् , कलुषम् , वृजिनम् , एनः, अघम् , अंहः, दुरितम् , दुष्कृतम् , इति १२ पापस्य। तत्र 'पङ्कम्' अस्त्री क्लीब-पुंसोः । 'पाप्मा नकारान्तः पुंसि । शेषं क्लीबे ॥धर्मम् , पुण्यम् , श्रेयः, सुकृतम् , वृषः, इति ५ सुकृतस्य । तत्र 'धर्मः' अस्त्रियां क्लोब-पुंसोः । वृषः पुंसि ॥-मुत्, प्रीतिः, प्रमदः, हर्षः, प्रमोदः, आमोदः, संमदः, आनन्दथुः, आनन्दः, शर्म , सातम् , सुखम् , इति १२ हर्षस्य । तत्र प्रीतिसाहचर्यान्मुदपि स्त्रियां दकारान्तः ॥-श्वःश्रेयसम् , शिवम् , भद्रम् , कल्याणम् ,
For Private and Personal Use Only