________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्लयः १३९-१६५]
प्रथमं काण्डम् |
उत्तरा दिगुदीची स्याद्दिशं तु त्रिषु दिग्भवे 'अवाग्भवमवाचीनमुदीचीनमुदग्भवम् प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु' इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् 'रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः " ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्
१५
For Private and Personal Use Only
१४८
**
***
१४९
१५०
***
**
१५१
१५२
१५३
१५४
१५५
१५६
१५७
१५८
-
----
दिक् प्राची । दक्षिणा दिक् अवाची। पश्चिमा दिक् प्रतीची। उत्तरा दिक् उदीची ॥ - दिश्यमिति दिग्भवे । तत्रिषु वाच्यलिङ्गम् । यथा - 'दिश्यो हस्ती', 'दिश्या हस्तिनी' इत्यादि ॥ – इन्द्रः, वह्निः, पितृपतिः, नैर्ऋतः, वरुणः, मरुतू, कुबेरः, ईशः, इति ८ क्रमात्पूर्वादीनां दिशां पतयः ॥ ऐरावतः, पुण्डरीकः, वामनः कुमुदः, अञ्जनः, पुष्पदन्तः, सार्वभौमः, सुप्रतीकः, इति ८ क्रमात् दिग्गजाः । पूर्वादिदिशां धारका गजा इत्यर्थः ॥ - अभ्रमुः, कपिला, पिङ्गला, अनुपमा, ताम्रकर्णी, शुभ्रदन्ती, अङ्गना, अञ्जनावती, एताः ८ करिण्यः । क्रमात् दिग्गजानां स्त्रिय इत्यर्थः ॥ अपदिशम्, विदिक्, इति २ दिशोर्मध्ये दिग्द्वयमध्यभागे । तत्र 'अपदिशम्' क्लीबाव्ययम् । नपुंसकमव्ययं चेत्यर्थः । 'विदिक्' स्त्रियाम् ॥ अभ्यन्तरम्, अन्तरालम्, इति २ अन्तरवकाशस्य ॥ चक्रवालम्, मण्डलम् इति २ मण्डलस्य ॥-अभ्रम्, मेघः, वारिवाहः, स्तनयित्नुः, बलाहकः, धाराधरः, जलधरः,
--