________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
कालवर्गः ४ ]
रत्नप्रभाव्याख्यासमेतः निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा, अथ शरत् स्त्रियाम् ॥ १९ ॥ 'षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥२०॥ "मासेन स्यादहोरात्रः पैत्रो, वर्षेण दैवतः। दैवे युगसहस्र द्वे ब्राह्मः, 'कल्पौ तु तौ नृणाम् ॥ २१ ॥ "मन्वन्तरन्तु दिव्यानां युगानामेकसप्ततिः। १°संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥२२॥
(१) श्रावण-भाद्राभ्यां वर्षर्तुः। तस्य द्वे नामनी। वर्षाशब्दः स्त्रियां बहुवचनान्तः । [ श्रावण भादों- वर्षाऋतु के २ नाम । ] ( २ ) आश्विनकार्तिकाभ्यां शरदः । [ आश्विन ( कुआर ) कार्तिक = शरद् ऋतु । ] ( ३) मार्गशीर्षादिमासयुग्मैः हेमन्तप्रभृतयः षड्ऋतवो भवन्ति । [ छः ऋतुओं के नाम । ] ( ४ ) द्वादशमासात्मकस्य वर्षस्य षड् नामानि । तत्र समाः शब्दः स्त्रियां नित्यं बहवचनान्तः । [ वर्ष ( साल ) के ६ नाम । ] (५) मनुष्याणामेकेन मासेन पितृणामेकोऽहोरात्रः । [ मनुष्यो का एक मास पितरों का १ दिन होता है । ] (६) मनुष्याणामेकेन वर्षेण देवनामेकोहोरात्रः । [ मनुष्यों के १ वर्ष से देवताओं का १ दिन होता है । ] (७) देवानां युगसहस्रे द्वे ब्रह्मण एकोऽहोरात्रः । एतदेव गीताया अष्टमेऽध्याये
'सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः' । [ मनुष्यों के ३६० वर्षों से देवताओं का एक वर्ष । देवताओं के १२००० वर्षों से मनुष्यों के चार युग होते हैं। मनुष्यों के चार युग से देवताओं का एक युग होता है । इस प्रकार देवताओं के हजार युगों से ब्रह्मा का एक दिन ( २४ घण्टा ) होता है। ] (८) एवं ब्रह्मणो दिनं मनुष्याणां स्थितिकालः । तस्य रात्रिः प्रलयकालः, तौ दिन रात्रिश्च कल्पौ भवतः । [ ब्रह्मा का दिन ( १२ घण्टा ) मनुष्यों का स्थितिकाल है। ब्रह्मा की रात्रि ( १२ घण्टा ) मनुष्यों का प्रलय काल है । ये दोनों मनुष्यों की गणना में कल्प कहे जाते हैं। ] ( ९) दिव्यानां युगानामेकसप्ततिः-मन्वन्तरं भवति । [ इकहत्तर दिव्यगुणों का एक मन्वन्तर होता है। ] ( १० ) प्रलयस्य पञ्च नामानि । [ प्रलय के ५ नाम । ]
For Private and Personal Use Only