________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
ર્
मरुत् ॥ २ ॥ क्रमात् ।
उत्तरा दिगुदीची स्याद्दिश्यन्तु त्रिषु 'दिग्भवे । [ अवाग्भवमवाचीनमुदीचीनमुदग्भवम् प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ] इन्द्रो वह्निः पितृपतिनैर्ऋतो वरुणो कुबेर ईशः पतयः पूर्वादीनां दिशां [ रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विषुः । बुधो बृहस्पतिश्चेति दिशाञ्चैव तथा ग्रहाः ॥ ] ४ ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । "करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४ ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । क्लोवाव्ययन्त्वदिशं दिशोमध्ये विदिक् स्त्रियाम् ॥ ५ ॥ अभ्यन्तरं त्वन्तरालं 'चक्रवालन्तु मण्डलम् । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥
[ प्रथमकाण्डे
( १ ) दिग्भववस्तुमात्रै दिश्यम् । [ पूर्वादि दिशाओं में होनेवाली वस्तु के नाम । ] ( २ ) पूर्वादीनां दिशां स्वामीनां नामानि । [ पूर्वादि दिशाओं के स्वामियों के नाम | ] ( ३ ) पूर्वादीनां दिशां ग्रहाः । [ क्रम से पूर्व आदि दिशाओं
ग्रह | ] ( ४ ) अष्टो दिग्गजाः । [ दिशाओं के ८ गज । ] ( ५ ) दिग्गजानां क्रमेण कारिण्यः । दिग्गजों की हथिनियाँ । [ स्पष्टीकरण - पूर्वदिशा का गज ऐरावत, हथिनी अभ्रमु । आग्नेयकोण का गज पुण्डरीक, हथिनी कपिला । दक्षिण दिशा का गज वामन, हथिनी पिङ्गला । नैर्ऋत्यकोणका गज कुमुद, हथिनी अनुपमा, पश्चिम दिशा का गज अञ्जन, हथिनी ताम्रपर्णी, वायव्यकोण का गज पुष्पदन्त, हथिनी शुभ्रदन्ती । उत्तरदिशा का गज सार्वभौम, हथिनी अङ्गना और ईशानकोण कागज सुप्रतीक, हथिनी अञ्जनावती । ( ६ ) आग्नेयादि कोणानां द्वे नामनी । [ आग्नेय आदि कोणों के २ नाम । ] ( ७ ) अभ्यन्तरस्य द्वे नामनी । [ भीतर के २ नाम । ] ( ८ ) मण्डलाकारेण स्थितस्य सेनासमूहस्य नामद्वयम् [ गोलाई से स्थित सेना समूह के २ नाम । ] ( ९ ) पञ्चदश मेघस्य नामानि । [ मेघ के १५ नाम । ]
For Private and Personal Use Only