________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ तृतीयकाण्डे
२४२
अमरकोषः 'अवयः शैलमेषार्का, आज्ञाह्वानाध्वरा हवाः ॥ २१३ ॥
भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । ४स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥ २१४ ॥
अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः । 'उत्सेकामर्षयोरिच्छाप्रसवे मह उत्सवः ॥ २१५ ॥ "अनुभावः प्रभावे च सतां च मतिनिश्चये। 'स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ २१६ ॥ 'शूद्रायां विप्रतनये शस्त्रे पारशवो मतः। १°ध्रुवो भभेदे क्लीबं तु निश्चितं शाश्वते त्रिषु ॥ २१७ ॥ १'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने । १२स्त्री कटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ २१८ ॥ १"शिवा गौरीफेरवयोर्द्वन्द्वं'४ कलहयुग्मयोः । १"द्रव्याऽसुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ॥ २१९ ॥
(१) शैले मेषे सूर्ये च अविः। [ शैल, मेष, सूर्य, का नोम अवि । ] . ( २ ) आज्ञायाम् आह्वाने, अध्वरे च हवः । [ आज्ञा, आह्वान, अध्वर का नाम हव । ] ( ३ ) सत्तादौ भावः । [ सत्ता, स्वभाव, अभिप्राय, चेष्टा, आत्मजन्म का नाम भाव । ] ( ४ ) उत्पादे फलादौ च प्रसवः । [ उत्पादन, फल, पुष्प, गर्भमोचन का नाम प्रसव । ] ( ५ ) अविश्वासादौ निह्नवः। [ अविश्वास, अपह्नव, निकृति का नाम निह्नव । ] ( ६ ) उत्सेकादौ उत्सवः। [ उत्सेक, अमर्ष, इच्छा, प्रसव, मह का नाम उत्सव । ] ( ७ ) प्रभावादी अनुभावः । [ प्रभाव, सज्जनों के निश्चय का नाम अनुभाव । ] ( ८ ) जन्महेतुप्रभृतिषु प्रभवः । [ आद्योपलब्धि, जन्म हेतु, स्थान का नाम प्रभव । ] (९) शूद्रायामुत्पन्ने ब्राह्मणसुते शस्त्रादौ च पारशवः । [शद्रा में उत्पन्न ब्राह्मण पुत्र, शस्त्र का नाम पारशव । ] (१०) नक्षभेदत्रादौ ध्रुवः । [ निश्चित आदि का नाम ध्रुव । ] ( ११ ) ज्ञातावात्मनि च पुंसि । आत्मीये त्रिषु । धनेऽस्त्रियाम् । [ आत्मीय, धन का नाम स्व ।] (१२) स्त्रीकटीवस्त्रग्रन्थ्यादौ नीवी। [स्त्रीकटी, वस्त्रग्रन्थि का नाम नीवी।। (१३) गौर्यां शृगालेऽपि च शिवा। [ गौरी, शृगालिन का नाम शिवा।] (१४) कलहे मिथुने च द्वन्द्वम् । [ कलह, युग्म का नाम द्वन्द्व । ] (१५) द्रव्यादौ सत्वम् । [ द्रव्य आदि का नाम सत्त्व । ]
For Private and Personal Use Only