________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
नानार्थवर्गः ३ ] रत्नप्रभाव्याख्यासमेतः
-कोचाः शिक्यमृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः, पावके शुचिः॥३३॥ मास्यमात्ये चात्युपधे पुंसि मध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ ३४ ॥
" (इति चान्ताः) "प्रसन्ने भल्लुकेऽप्यच्छो, गुच्छः स्तबकहारयोः। "परिधानाऽञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः ॥ ३५ ॥
(इति छान्ताः) 'केकिताावहिभुजौ, 'दन्तविप्राण्डजा द्विजाः। १°अजा विष्णुहरच्छागा, १'गोष्ठाध्वनिवहा व्रजाः॥३६॥
( १ ) शिक्ये, मृद्भदे, दारुजि च काचः । [ शिक्य, मृद्भेद, नेत्ररोग का नाम 'काच' ( मोतियाबिन्द)।] ( २ ) विपर्यासे विस्तरे च प्रपञ्चः। [विपर्यास, विस्तार का नाम 'प्रपञ्च'।] (३) 'शुचि प्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु' । इति मेदिनी। पावके, ज्येष्ठे आषाढे च मासि, पवित्रे च शुचिः । [ पावक, ज्येष्ठ-आषाढ़ मास, मन्त्री, मेध्य, सित का नाम 'शुचि' । ] ( ४ ) अभिष्वङ्गे स्पृहायां किरणे च रुचिः। रुचिशब्द: स्त्रियाम् । [ आलिंगन, स्पृहा, गभस्ति, का नाम 'रुचि'।]
इति चान्ताः शब्दाः। (५) प्रसन्ने भल्लुके च अच्छः । [प्रसन्न, भालू का नाम 'अच्छ' । ] ( ६ ) स्तबके हारे च गुच्छः। [ स्तबक, हार का नाम 'गुच्छ' । ] ( ७ ) अञ्चले परिधाने, जलप्रान्ते च कच्छः । अयं त्रिषु लिङ्गेषु प्रयुज्यते । [ परिधान, अञ्चल, जलप्रान्त का नाम 'कच्छ' । ]
इति छान्ताः शब्दाः । (८) मयूरे गरुडे च अहिभुक् । [ ताक्ष्य, अहिभुक् का नाम 'केकि' ( मयूर गरुड )। ] ( ९) दन्ते, विप्रे, अण्डजे च द्विजः । [ दांत, विप्र, अण्डज का नाम 'द्विज' । ] ( १० ) 'अजो हरी हरे कामे विधौ छागे रघोः सुते' । इति विश्वः । विष्णौ, शिवे, छागे च अजः। [ विष्णु, हर, छाग का नाम 'अज' । ] (११) गोष्ठे मार्गसमूहे च वजः। [ गोस्थान, मार्गसमूह का नाम 'वज'।]
For Private and Personal Use Only