________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याल्यासमेतः
२०५ 'परागः कौसुमे रेणौ स्नायीयादौ रजस्यपि । गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥२६॥ सर्गः स्वभावनिर्मोक्षनिश्चयाऽध्यायसृष्टिषु । "योगः संनहनोपायध्यानसङ्गतियुक्तिषु ॥ २७ ॥ 'भोगः सुखे स्व्यादिभृतावहेश्च फणकाययोः। "चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २८॥ 'कपौ च प्लवगः, 'शापे त्वभिषङ्गः पराभवे । ५°यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २९ ॥
(१) कौसुमे रेणी, स्नानीयादौ, रजसि च परागः । [ कुसुमरेणु, स्नानीयचूर्ण, रजस् का नाम 'पराग' । ] (२) 'नागं नपुंसके रङ्गे सीसके करणान्तरे । नागः पन्नगमातङ्गकराचारिषु तोयदे' । नागकेसर-पुन्नाग-नागदन्तकमस्तके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थित.' ॥ इति मेदिनी। 'मातङ्गः श्वपचे गजे' । इति मेदिनी। [ नाग, मातंग का नाम 'गज' । ] ( ३ ) 'अपाङ्गस्त्वङ्गहीनेस्यान्नेत्रान्ते तिलकेऽपि च'। इति मेदिनी। 'अपाङ्गो नयनस्यान्ते स्याच्चित्रकप्रधानयोः'। इत्यजयः। [ तिलक का नाम 'अपांग' । ] ( ४ ) 'सर्गस्तु निश्चयाऽध्यायमोहोत्साहात्मसृष्टिषु'। इति मेदिनी । निर्मोक्षः त्यागः, मोक्षस्याभावश्च । [ स्वभाव, निर्मोक्ष, निश्चय, अध्यायारम्भ का नाम 'सर्ग' । ] ( ५ ) 'योगोऽपूर्वार्ध सम्प्राप्तौ सङ्गतिध्यानयुक्तिषु । वपुः स्थैर्यप्रयोगे च विष्कम्भादिषु भेषजे ॥ विस्रब्धघातके द्रव्योपायसंहननेष्वपि । कार्मणेऽपि च'। इति मेदिनी । संनहनं कवचम् । उपाय:-सामादिः । [ संहनन, उपाय, ध्यान, संगति, युक्ति का नाम 'योग'।] (६ ) 'भोगः सुखे धने चाहेः शरीरफणयोमंतः। पालनेऽभ्यवहारे च योषिदादिभृतावपि'। इति मेदिनी। 'पालनेऽभ्यवहारे च निर्देशे पण्ययोषिताम्'। इति विश्वः । [सुख, स्त्रीसहवास, सर्प का फण तथा शरीर का नाम 'भोग' । ] (७) चातके, हरिणे, शबले सारङ्गः। 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शबले' । इति मेदिनी। [ चातक, हरिण, शबल, का नाम 'सारंग' । ] (८) सूर्यसारथौ, वानरे, भेके-प्लवगः । [ कपि का नाम 'प्लवग' । ] (९) पराभवे शापे अभिषङ्गः । [पराभव, अभिषंग का नाम 'शाप' 1] ( १० ) यानाङ्गे हलाङ्गे च युगः। [ यानांग, हलांग का नाम 'युग' और युग्म, सत्ययुग का नाम 'युगम्' । ]
For Private and Personal Use Only