________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८ अमरकोषः
[तृतीयकाण्डे 'उदजस्तु पशुप्रेरणमकेरणिरित्यादयः शापे॥३८॥ गोत्रान्तेभ्यस्तस्य · वृन्दमित्यौपगवकादिकम् ।
आपूपिकं शाष्कुलिकमेवमाधमचेतसाम् ॥ ३९ ॥ 'माणवानां तु माणव्यं, 'सहायानां सहायता। "हल्या हलानां, 'ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ॥ ४०॥ 'द्वे पशुकानां पृष्ठानां पार्श्वपृष्ठचमनुक्रमात् । १°खलानां खलिनी खल्याऽप्यथ' मानुष्यकं नृणाम् ॥४१॥ १२ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथक् । १ अपि
साहस्रकारीषचार्मणाऽऽथर्वणादिकम् ॥ ४२ ॥
इति सङ्कीर्णवर्गः ॥२॥
(१) पशुप्रेरणस्य द्वे । [पशु को हाँकना के २ नाम । ] (२) शापस्यकम् । आदि पदेन-अजननिः, अवग्राहः, निग्राहः, इत्यादीनि । [ शाप । ] (३) गोत्रान्तेभ्यो वन्दमित्यर्थे वुअप्रत्ययत्वाद् औपगवकम, इत्यादि भवति । तद् यथाउपगो: अपत्यम् = औपगवः । येषां समूहः, वृन्दं वा औपगवकम् । आदिपदेन-- गार्गकम्, दाक्षकम् । [ गोत्रान्तनाम । ] ( ४ ) अचेतसाम् अपूपादीनां वृन्दे तु आपूपिकम्, शाकुलिकम्, आदिपदेन साक्तुकम् भवति । [ मालपुवा आदि के समूह के नाम । ] ( ५ ) माणवानां समूहस्यकम्—माणव्यम् । [ बच्चों का समूह । ] ( ६ ) सहायानां समूहस्यकम् । [ सहायता।] (७) हलानां समूहस्यकम् । [ हल्या । ] (८) ब्रह्मणानां समूहस्यकम् । [ ब्राह्मण्यम् । ] वाडवानां समूहस्यकम् । [ वाडव्यम् । ] (९) पशुकानां समूहस्यकं पृष्टयम् । [ पावं और पृष्ठय । ] ( १० ) खलानां समूहस्य खलिनी, खल्या चेति नामद्वयम् । [ दुष्टों के समूह के २ नाम । ] ( ११ ) मनुष्याणां समूहस्यकं नाम मानुष्यकम् । [ मनुष्यों का समूह । ] (१२) ग्राम, जन, धूम, पाश, गलसमूहानां पृथगेकैकम् । [ग्राम, जन, धूम, पाशों के समूह । ] ( १३ ) सहस्राणां, करीषाणां, चर्मणाम्, अथर्वणाम् च समूहस्यकैकम् । [ हजारों का समूह, चमड़ों का समूह, अथर्ववेदियों का समूह । ]
इति सङ्कीर्णवर्गः ।
1908
For Private and Personal Use Only