________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
अमरकोषः
[तृतीयकाण्डे
'अनायासकृतं फाण्ट, स्वनितं ध्वनितं समे ॥९४ ॥ 'बद्धे सन्दानितं मूतमुदितं सन्दितं सितम् । निष्पक्के कथितं, “पाके क्षीराज्यहविषां शृतम् ॥ ९५ ॥ 'निर्वाणो मुनिवह्नयादौ, 'निर्वातस्तु गतेऽनिले। “पक्वं परिणतं, 'गूनं हनं, "मोढं तु मूत्रिते ॥ ९६ ॥ ''पुष्टे तु पुषितं, सोढे क्षान्तमुद्वान्तमुद्गते। १४दान्तस्तु दमिते 'शान्तःशमिते, "प्राथितेर्दितः ॥९७ ॥ १"ज्ञप्तस्तु ज्ञपिते, "छन्नश्छादिते, ''पूजितेऽश्चितः। २° पूर्णस्तु पूरिते, २१क्लिष्टः क्लिशितेऽवसिते२२ सितः॥९८॥ २ अष्टप्लुष्टोषिता दग्धे, २४तष्टत्वष्टौ तनूकृते।
(१) फाण्टस्य नामद्वयम् । [ चाय की भाँति पकाया हुआ क्वाथ के २ नाम । ] ( २) ध्वनितस्य नामद्वयम् । [ध्वनित के २ नाम। ] ( ३ ) बद्धस्य षड् नामानि । [ बँधा हुआ के ६ नाम । ] ( ४ ) सम्पूर्ण पक्वस्य नामद्वयम् । [पूरा पका हुआ के २ नाम । ] ( ५ ) क्षीरादिषु पक्वस्यकम् । [ दूध, घी में पका हुआ । ] ( ६ ) मुनिवह्नयादिनिर्वाणस्यकम् । [ मुनि की मृत्यु तथा आग का बुझना । ] ( ७ ) निर्वातस्यकम् । [ वायु रहित स्थान । ] (८) पक्वस्य नामद्वयम् । [ पका हुआ के २ नाम । ] (९) निःसृतमलस्य द्वे नामनी । [मल त्याग के २ नाम । ] (१०) मूत्रितस्य नामद्वयम् । [ मूत्रत्याग के २ नाम । ] (११) लब्धपोषणस्य नामद्वयम् । [पका हुआ के २ नाम । ] ( १२ ) सोढस्य नामद्वयम् । [ सहन किया हुआ के २ नाम । ] ( १३ ) कृतवमनस्य नामद्वयम् । [जिसने वमन किया हो, उसके २ नाम 1 ] ( १४ ) दमितस्य वृषभादेवॆ नामनी । [ दमन किये हए बैल आदि के २ नाम । ] (१५) शान्तस्य नामद्वयम् । [ शान्त के २ नाम । ] ( १६ ) प्रार्थितस्य द्वे नामनी । [ प्रार्थित के २ नाम ।] ( १७ ) लब्धबोधस्य नामद्वयम् । [ ज्ञान प्राप्त के २ नाम । ] ( १८ ) आच्छादितस्य नामद्वयम् । [ ढका हुआ के २ नाम । ] ( १९ ) पूजितस्य नामद्वयम् । [पूजित के २ नाम । ] (२०) पूर्णस्य द्वे नामनी । [ पूर्ण के २ नाम । ] ( २१ ) लब्धकष्टस्य नामद्वयम् । [ कष्टप्राप्त के २ नाम । ] ( २२ ) समाप्तस्य नामद्वयम् । [ समाप्त के २ नाम । ] ( २३ ) दग्धस्य चत्वारि नामानि । [ जला हुआ के ४ नाम । ] ( २४ ) तनूकृतस्य त्रीणि नामानि । [ पतला किये हुए के ३ नाम ।]
For Private and Personal Use Only