________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ तृतीयं काण्डम्
१. विशेष्यनिघ्नवर्गः 'विशेष्यनिघ्नः सङ्कीर्णानार्थैरव्ययैरपि । लिङ्गादिसङ्ग्रहैर्वर्गा. सामान्ये वर्गसंश्रयाः॥१॥ स्त्रीदाराद्यैर्यद् विशेष्यं यादृशैः प्रस्तुतं पदैः। गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥२॥ 'सुकृती पुण्यवान् धन्यो, महेच्छस्तु महाशयः। "हृदयालुः सुहृदयो, 'महोत्साहो महोद्यमः ॥३॥ "प्रवीणे निपुणाभिज्ञ-विज्ञ-निष्णात-शिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४॥
( १ ) इह तृतीयाऽऽख्ये सामान्यकाण्डे पञ्च वर्गा यथाक्रमं कथ्यन्ते । कथम्भूतास्ते वर्गाः पूर्वोक्ता: स्वर्गाद्याश्रयाः । 'सुकृतीपुण्यवान् धन्य' इत्यादीनां देवासुर मनुष्येष्वेव विशेषणत्वेन सम्बध्यन्ते येषां तानि तेषां सङ्ग्रहाः, तैः। आदिपदेन लङ्काशेफालिकाप्रभृतीनां ग्रहणमभीष्टम् । [ इस वर्ग की प्रस्तावना । ] (२) स्त्रीदारकलत्रादिशब्दैः यल्लिङ्गसङ्ख्याविशिष्टः, यद्विशेष्यं स्त्रीदारकलत्रादिरूपं प्रस्तुतं, तस्य द्रव्यगुणक्रियाशब्दा! भेदका: ( विशेषणानि ) भवन्ति । तद् यथा गुणशब्द:--सुकृती पुरुषः, सुकृतिनो दाराः, सुकृतिनी स्त्री, सुकृति कलत्रम् । द्रव्यशब्दः---दण्डी पुरुषः, दण्डिनो दाराः, दण्डिनी स्त्री, दण्डि कलत्रम् । क्रियाशब्द:--पाचकः पुरुषः, पाचका दाराः, पाचिका स्त्री, पाचकं कलत्रमित्यादयः । [ सामान्य विशेषणों के रूप विशेष्य के अनुसार बदलते हैं । ] ( ३ ) भाग्यशालिनो नामत्रयम् । [ भाग्यवान् के ३ नाम । ] ( ४ ) महाशयस्य द्वे नामनी । [ महाशय के २ नाम । ] (५) शुद्धमनसो नामद्वयम् । सहृदयः, इत्यपि पाठभेदः । [ शुद्ध हृदय वाले के २ नाम । ] ( ६ ) महोत्साहवतो वे नामनी। [ महोत्साही के २ नाम । ] (७) कर्मकुशलस्य दश नामानि । [ कर्मठ के १० नाम ।]
For Private and Personal Use Only