________________
Shri Mahavir Jain Aradhana Kendra
१७२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
"पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते । परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् ॥ ४५ ॥ * अष्टापदं शारिफलं, "प्राणिद्यूतं समाह्वयः । उक्ता भूरिप्रयोगत्वादेकस्मिन् येऽत्र यौगिकाः ॥ ४६ ॥ ताद्धर्म्यादन्यतो वृत्तावृह्या लिङ्गान्तरेऽपि ते । इति शूद्रवर्ग: ।
नामलिङ्गानुशासने ।
इत्यमरसिंहकृतौ द्वितीयकाण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ १ ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयं काण्डम् ।
( १ ) द्यूते पणस्य द्वे नामनी । [ बाजी के २ नाम । ] ( २ ) पाशकस्य त्रीणि नामानि । [ पाशा के ३ नाम । ] तत्र विशेषः -
अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्पे बिभीतकतरावपि ॥
चक्रे कर्षे पुमान् क्लीवं तुत्थे सौवर्चलेन्द्रिये । इति मेदिनी ॥ ( ३ ) शारीणां सर्वतथालनस्यैकम् । [ चौपड़ में गोटियों को चलाना । ] ( ४ ) शारिफलस्य नामद्वयम् । [ चौपड़ के २ नाम । ] ( ५ ) प्राणिद्यूतस्य नामद्वयम् । [ प्राणियों का जुआ के २ नाम । ] ( ६ ) अस्मिन् वर्गे ये मालाकार-मार्दङ्गिकविकादयो यौगिकाः शब्दाः पुंसि कथिताः तेऽन्यत्र स्त्रियां क्लीबे चोदनीयाः । यथा --- मालाकारः पुमान्, मालाकारी स्त्री, मालाकारं कुलम्, इत्यादि । येऽप्ययौगिकाः करण-मालिक - कुम्भकारादयः ते जातिवचनत्वाच्छूद्रादिवत् लिङ्गान्तरे स्त्रीलिङ्गे क्लीबत्वेऽपि ज्ञातव्याः । यथा - करणी, कुम्भकारीत्यादयः । [ यौगिक शब्दों का प्रयोग तीनों लिंगों में होता है । ]
1
इति शूद्रवर्ग: ।
इति श्रीमत्पण्डित तारादत्त त्रिपाठितनूजेन डॉ० ब्रह्मानन्द त्रिपाठिना विरचितायाम् अमरकोषटीकायां द्वितीयं काण्डम् |
For Private and Personal Use Only