________________
Shri Mahavir Jain Aradhana Kendra
१६६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'तन्तुवायः कुविन्दः स्यात् तुन्नवायस्तु सौचिकः ॥ ६ ॥ 'रङ्गाजीवश्चित्रकारः, शस्त्रमार्जोऽसिधावकः ।
" पादूकृच्चर्मकारः स्याद् 'व्योकारो लोहकारकः ॥ ७ ॥ नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः । 'स्याच्छाह्निकः काम्बविकः, 'शाल्बिकस्तानकुट्टकः ॥ ८ ॥ " तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् । " ग्रामाधीनो ग्रामतक्षः, १२ कौतक्षोऽनधीनकः ॥ ९ ॥
[ द्वितीयकाण्डे
१३ क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः । १४ निर्णेजकः स्याद्रजकः, १५ शौण्डिको मण्डहारकः ॥ १० ॥ " जाबालः स्यादजाजीवो, "देवाजीवस्तु देवलः ।
८
" स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः ॥। ११ ॥
( १ ) तन्तुवायस्य द्वे नामनी । [ जुलाहा के २ नाम । ] ( २ ) सौचिकस्य नामद्वयम् । [ दर्जी के २ नाम । ] ( ३ ) चित्रकारस्य द्वे नामनी । [ चित्रकार, रंगरेज के २ नाम । ] ( ४ ) शस्त्रमार्जकस्य नामद्वयम् । [ सिकलीगर के २ नाम । ] ( ५ ) चर्मकारस्य नामद्वयम् । [ चमार, मोची के २ नाम । ] ( ६ ) लोहकारस्य द्वे नामनी । [ लोहार के २ नाम । ] ( ७ ) स्वर्णकारस्य चत्वारि नामानि । [ सुनार के ४ नाम । ] ( ८ ) शङ्खवादकस्य नामद्वयम् । केचिच्छङ्खविकारनिर्मातुरिति । [ शंख बजाने वाला अथवा शंख की चूड़ी आदि बनाने वाले के २ नाम । ] ( ९ ) ताम्रकारस्य द्वे नामनी । [ ठठेरा या कसेरा के २ नाम | ] ( १० ) वर्धके: पञ्च नामानि । [ बढ़ई के ५ नाम | ] ( ११ ) ग्रामाधीनस्य वर्धकेर्नामद्वयम् । [ गाँव का बढ़ई के २ नाम । ] ( १२ ) कौटत्वष्टुरेकम् | [ स्वतन्त्र बढ़ई । ] ( १३ ) नापितस्य पञ्च नामानि । [ नाई के ५ नाम | ] ( १४ ) रजकस्य नामद्वयम् । [ धोबी के २ नाम । ] ( १५ ) शौण्डिकस्य नामद्वयम् । [ कलवार के २ नाम । ] ( १६ ) अजजीवनस्य नामद्वयम् । [ भेड़, बकरी पालने वाला के २ नाम । ] ( १७ ) देवलस्य नामद्वयम् । [ आजीविका के लिये देवपूजा करने वाले के २ नाम । ] ( १८ ) इन्द्रजालादिमायाया नामद्वयम् । [ जादू मायाजाल के २ नाम । ] ( १९ ) माया प्रदर्शयितुर्नामद्वयम् । [ जादूगर के २ नाम । ]
For Private and Personal Use Only