________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शूद्रवर्गः १०] रत्नप्रभाव्याख्यासमेतः
१६५ १०. अथ शूद्रवर्ग: 'शूद्रश्वावरवर्णाश्च वृषलाश्च जघन्यजाः ।
आ चाण्डालातु सङ्कीर्णा अम्बष्टकरणादयः॥१॥ 'शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः । "शूद्राक्षत्रिययोरुग्रो, 'मागधः क्षत्रियाविशोः॥२॥ "माहिष्योऽक्षित्रिययोः, 'क्षत्तार्याशूद्रयोः सुतः । 'ब्राह्मण्यां क्षत्रियात् सूतस्तस्यां° वैदेहको विशः॥३॥ ११रथकारस्तु माहिष्यात् करण्यां यस्य सम्भवः । १२स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥४॥ १३कारुः शिल्पी, "संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । १५कुलकः स्यात्कुलश्रेष्ठी, १ मालाकारस्तु मालिकः ॥५॥ १"कुम्भकारः कुलालः स्यात् "पलगण्डस्तु लेपकः ।
( १ ) शूद्रस्य चत्वारि नामानि । [शूद्र के ४ नाम ।] ( २ ) वर्णसङ्कराणामेकम् । आदिपदेन उग्रादिग्रहः । [ वर्णसंकर । ] ( ३ ) वैश्यात् शूद्रायां जातस्यैकं नाम । [ करण । ] (४) विप्राद् वैश्यायामुत्पन्नस्यैकम् । [ अम्बष्ठ । ] (५) क्षत्रियात् शूद्रायामुत्पन्नस्यैकम् । [ उग्र । ] ( ६ ) वैश्यात् क्षत्रियायामुत्पन्नस्यैकम् [ मागध । ] ( ७ ) क्षत्रियात् वैश्यायामुत्पन्नस्यैकम् । [ माहिष्य । ] (८) शूद्राद् वैश्यायामुत्पन्नस्यकम् । [ क्षत्ता । ] ( ९ ) क्षत्रियाद् ब्राह्मण्यां जातस्यकम् [ सूत । ] ( १० ) वैश्याद् ब्राह्मण्यां जातस्यैकम् । [वैदेहक । ] (११) करण्यां ( शूद्रायां वैश्यादुत्पन्नस्य ) माहिष्यात् ( वैश्याक्षत्रियपुत्रात् ) समुत्पन्नस्यैकम् । [ रथकार । ] ( १२ ) शूद्राद् ब्राह्मण्यामुत्पन्नस्यकम् । [ चाण्डाल । ] ( १३) शिल्पिनो नागद्वयम् । [ शिल्पी, के २ नाम । ]
तक्षा च तन्तुवायश्च नापितो रजकस्तथा ।
पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः ॥ इति । (१४ ) सजातीयशिल्पिसङ्घस्यकं स्त्रियां पुंसि च। [ सजातीय शिल्पियों का संघ । ] ( १५ ) शिल्पिसमूहस्वामिनो नामद्वयम् । तत्र कुलश्रेष्ठी शब्दो नान्तः । [ कारीगरों का चौधरी के २ नाम । ] ( १६ ) मालाकारस्य नामद्वयम् । [माली के २ नाम । ] (१७) कुम्भकारस्य नामद्वयम् । [ कुम्हार के २ नाम । ] (१८) गृहादौ लेपकारस्य नामद्वयम् । [ घर लीपने वाले के २ नाम ।]
For Private and Personal Use Only