________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
अमरकोषः
[द्वितीयकाण्डे 'समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥७२॥ २ऊधस्तु क्लीबमापीनं, समौ शिवककोलकौ । 'न पुंसि दाम सन्दानं, "पशुरज्जुस्तु दामनी ॥ ७३ ॥ 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके । "कुठरो दण्डविष्कम्भो, 'मन्थनी गर्गरी समे ॥७४ ॥ "उष्ट्रे क्रमेलकमयमहाङ्गाः, १°करभः शिशुः । १'करभाः स्युः शृङ्खलका दारवैः पादवन्धनैः ॥ ७५ ॥ १२अजा छागी, स्तभच्छागवस्तच्छगलका अजे। १४मेढोरभ्रोरणोर्णायुमेषवृष्णय एडके ॥ ७६ ॥ १५उष्ट्रोरभ्रोऽजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । १ चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः ॥ ७७॥
( १ ) प्रतिवर्ष प्रसवित्र्या धेनोरेकम् । [ प्रतिवर्ष बच्चा देने वाली गाय । ] (२) दुग्धाशयस्य नामद्वयम् । [थन के २ नाम । ] ( ३ ) कीलकस्य नामद्वयम् । [खुंटा के २ नाम।] ( ४ ) गोदोहनकाले पादबन्धनरज्जोर्नामद्वयम् । [ दूध दुहते समय गाय के पैर बाँधने वाली रस्सी के २ नाम । ] ( ५ ) पशुबन्धनरज्वा नामद्वयम् । [ जानवरों को बाँधने वाली रस्सी के २ नाम । ] ( ६ ) मन्थदण्डस्य पञ्च नामानि । [ मथानी के ५ नाम । ] (७) मन्थबन्धनकाष्टस्य किंवा मन्थदण्डधारककाष्ठस्यकम् ।। मथानी बाँधने वाला काष्ठ । (८) मन्थनपात्रस्य नामद्वयम् । [ दही मथने के पात्र के २ नाम । ] (९) उष्टस्य चत्वारि नामानि । [ ऊँट के ४ नाम । ] ( १० ) उष्ट्रशिशोरेकं नाम । [ ऊँट का बच्चा । ] ( ११) काष्ठयन्त्रशृङ्खलादिबद्धस्य करभस्य नाम । ( १२) अजाया नामद्वयम् । [बकरी के ३ नाम । ] ( १३ ) अजस्य पञ्च नामानि । [बकरा के ५ नाम । ] ( १४ ) मेषस्य सप्त नामानि । [ भेड़ा के ७ नाम । ] (१५) उष्ट्रादिवृन्दस्येककम् । तद्यथा-उष्ट्राणां समूहः---औष्ट्रकम् । उरभ्राणां समूहः-औरभ्रकम् । अजानां समूहः-आजकम् । [ ऊँट आदि का समूह । ] ( १६ ) गर्दभस्य पञ्च नामानि । [ गधा के ५ नाम । ]
गर्दभं श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे, गर्द भी क्षुद्र जन्तुरोगप्रभेदयोः ॥ इति विश्वः ।
For Private and Personal Use Only