________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे 'उत्पन्न उक्षाः जातोक्षः सद्यो जातस्तु तर्णकः ॥६१॥
शकृत्करिस्तु वत्सः स्यादम्यवत्सतरौ समौ । "आर्षभ्यः षण्डतायोग्यः, षण्डो गोपतिरिट्चरः॥ १२॥ "स्कन्धदेशे त्वस्य वहः, 'सास्ना तु गलकम्बलः। 'स्यान्नस्तितस्तु नस्योतः, प्रष्ठवाड् युगपार्श्वगः ॥ ६३ ॥ १'युगादीनां तु वोढारो युग्य-प्रासङ्गय-शाकटाः। १२खनति तेन तद्वोढाऽस्येदं हालिकसरिकौ ॥ ६४ ॥ १७धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः। १४उभावेकधुरोणकधुरावेकधुरावहे
॥६५॥ १५स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः । १६माहेयी सौरभेयो गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥
अर्जुन्यध्न्या रोहिणी "स्यादुत्तमा गोषु नैचिको । ( १ ) यूनोवृषभस्य कम् । [ जवान बैल । ] ( २ ) सद्योजातगोवत्सस्यकम् । [ नवजात बछड़ा। ] ( ३ ) वत्सस्य नामद्वयम् । [ बछड़ा के २ नाम । ] ( ४ ) प्राप्तयौवनावस्थस्य वृषभस्य नामद्वयम् । [ जवान सांड । ] ( ५ ) लब्धतारुण्यस्य गोवत्सस्यकम् । [ जवान गाय का बछड़ा । ] ( ६ ) षण्डस्य नामत्रयम् । 'षण्डं पद्मादिसङ्घाते न स्त्री स्याद् गोपतौ पुमान्' । इति मेदिनी । अत्र षण्डशब्दो मुर्धन्यादिः डान्तश्च । 'षण्ढः स्यात् पुंसि गोपतौ। आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि' । इति मेदिनी। [ सांड के ३ नाम । ] ( ७ ) वृषभस्कन्धदेशस्थमांसपिण्डस्यकम् । [ जड़ा। ] (८) गलकम्बलस्य नामद्वयम् । सास्ना स्त्रि. याम् । [ गले की झालर के २ नाम । ] (९) नासारज्जुपिनद्धस्य वृषभस्य नामद्वयम् । [ नकेल वाले सांड के २ नाम । (१०) दमनकाले कण्ठारोपितकाष्ठस्य नामद्वयम् । [ जुआ के २ नाम । ] (११) युगं वहति-[ युग्यः ] । प्रासङ्गं वहति-[प्रासङ्ग्यः ] शकटं बहति-[ शाकट: । ] ( १२ ) हलेन खनति, हलं वहति, हलस्य अयं वा [ हालिकः ] सीरेण खनति, सीरं वहति सीरस्य अयं वा [ सैरिकः । ] (१३) धुरन्धरस्य वृषस्य पञ्च नामानि । [ हल या गाड़ी में अकेले जोते जाना वाला बैल के ५ नाम । ] ( १४ ) एकधुरावहस्य वृषभस्य नामत्रयम् । [ एक ओर के भार को ढोने वाले बैल के ३ नाम । ] ( १५ ) सर्वधुरीणस्य नामद्वयम् । [ सब प्रकार के भार को ढोने वाले बैल के २ नाम ।1 ( १६ ) धेनोर्नव नामानि । [ गाय के ९ नाम । ] (१७) उत्तमाया गोरेकं नाम । [ उत्तम गाय।]
For Private and Personal Use Only