________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
अमरकोषः
[द्वितीयकाण्डे 'सहस्रवेधि जतुकं बाह्लीकं हिङ्ग रामठम् । 'तत्पत्त्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥४०॥ अनिशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी।
सामुद्रं यत्तु लवणमक्षी वशिरं च तत् ॥४१॥ "सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। 'रौमकं वसुकं, पाक्यं विडच्च कृतके द्वयम् ॥ ४२ ॥ 'सौवर्चलेऽक्षरुचके, तिलकं तत्र मेचके। १°मत्स्यण्डी फाणितं खण्डविकारे, ११शर्करा सिता ॥ ४३ ॥ १२कूचिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता। [दना सह पयः पक्वं यत्तत्स्याद्दधिकूचिका ।
'काञ्चिकं काजिकं वीरं कुल्माषाभिषुतं तथा । अवन्तिसोम धान्याम्लमारनालं महारसम् ॥
सौवीरञ्च सुवीराम्लं तथा शुक्लं तुषोदकम् ॥ इति । (१) हिङ्गवृक्षनिर्यासस्य पञ्च नामानि । [ हींग के ५ नाम । ] (२) हिङ्गपत्र्याः पञ्च नामानि । त्वक्पत्रीति पाठभेद: क्वचित् । यथा-'तत्पत्री त्वचमाख्यातं त्वक्पत्रीकारवीति च'। इति रुद्रः । [ हिंगु पत्री के ५ नाम । ] ( ३ ) हरिद्रायाः पञ्च नामानि । [ हल्दी के ५ नाम । ] (४) सामुद्रलवणस्य नामद्वयम् । [ सामुद्र लवण । ] ( ५ ) संन्धवलवणस्य नामचतुष्टयम् । [सन्धवलवण। ] ( ६ ) शाकम्भरीलवणस्य नामद्वयम् । [ साँभर नमक के २ नाम । ] ( ७ ) कृतकलवणस्य नामद्वयम् । [ खारी नमक के २ नाम । ] ( ८ ) सौवर्चललवणस्य नामत्रयम् । [ सौंचरनमक के ३ नाम । ] ( ९ ) कृष्णवर्णवतः सौवर्चललवणस्यकम् । [ कालानमक । ] ( १० ) मत्स्यण्डया नामत्रयम् । [ राब के ३ नाम । ( ११ ) शर्कराया नामद्वयम् । [ चीनी के ३ नाम । ] ( १२ ) किलाटिकाया नामद्वयम् । [ खोवा, मावा के २ नाम । ] तत्र विशेषः- . - कुचिका सूचिकायां च तूलिकायाञ्च कुड्मले ।
कपाटाकुटिके क्षीरविकृतावपि योषिति' ॥ इति मेदिनी । (१३ ) रसालाया नामद्वयम् । [ सिखरन के २ नाम । ] ( १४ ) दधिचिकाया एक नाम । [ दही के साथ पकाया गया दूध । ]
For Private and Personal Use Only