________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैश्यवर्गः ९] रत्नप्रभाव्याख्यासमेतः
१५१ 'दविः कम्बिः खजाका च, स्यात्त(रुहस्तकः ।
अस्त्री शाकं हरितकं शिगुरस्य तु नाडिका ॥ ३४ ॥ कलम्बश्च कडम्बश्च, वेसवार उपस्करः। प्रतिन्तिडीकं च चुक्रं च वृक्षाम्लमथ "वेल्लजम् ॥ ३५ ॥
मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् । 'जीरको जरणोऽजाजी कणा, कृष्णे तु जीरके ॥ ३६ ॥
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका । १°आर्द्रकं शृगवेरं स्यादथ ११च्छत्वा वितुन्नकम् ॥ ३७॥
कुस्तुम्बुरु च धान्याकमथ १२शुण्ठी महौषधम् ।।
स्त्रीनपुंसकयोविश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ ५ आरनालकसौवीरकुल्माषाऽभिषुतानि च।
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥ (१) दा नामत्रयम् । [ करछुल, डाडू के ३ नाम । ] ( २) दविविशेषस्य नामद्वयम् । [ पलटा, पौना, पणियौं के २ नाम । ( ३ ) वास्तुकादिशाकस्य नामत्रयम् । शाकम् अस्त्री। [शाक के ३ नाम । 1( ४ ) शाकनालस्य नामद्वयम् । [शाक के डंठल के २ नाम । ] ( ५ ) पाकसंस्कारार्थ प्रयुज्यमानस्य हिंङ्ग्वादेर्नामद्वयम् । [ छोंकन के २ नाम ] तत्र-हिङ्गजीरकहरिद्राधान्याकशुण्ठीसर्षपादेरिति, मुकुटः । केचिच्च-विंशति पलानि हरिद्रायाः, दशपलानि धान्याकस्य, पञ्च पलानि जीरकस्य, सार्द्धद्वयपलं मेथिकायाः, भजितमेवैतच्चतुष्टयं ग्राह्यम् । पलत्रयं मरिचस्य, पलाई रामठस्य च संयोज्य वेसवार इत्युच्यते । तद्यथा आत्रेय संहितायाम्-- 'चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् । धान्याकं रजनीश्वेततण्डुलाश्च समांशकाः।
बेसवार इति ख्यात: शाकादिषु नियोजयेत्' । इति । ( ६ ) अम्लभेदस्य तिन्तिडीकस्य नामत्रयम् । [ चूका के ३ नाम । ] (७) मरिचस्य षड् नामानि । [ मरिच के ६ नाम । ] ( ८ ) जीरकस्य नामचतुष्टयम् । [ जीरा के ४ नाम । ] ( ९) कृष्णजीरकस्य षड् नामानि । [ कालाजीरा के ६ नाम । ] ( १० ) आर्द्रकस्य नामद्वयम् । [ अदरख के २ नाम । ] (११) धान्याकस्य चत्वारि नामानि। [ धनियां के ४ नाम । ] ( १२ ) शुण्ठयाः पञ्च नामानि । [ सोंठ के ५ नाम । ] ( १३ ) काजिकस्य अष्टौ नामानि । [ कांजी के ८ नाम । ] यथाह धन्वन्तरि:---
For Private and Personal Use Only