________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रियवर्गः ८ ]
रत्नप्रभाव्याख्यासमेतः
'जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके । जैत्रस्तु जेता, यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ सोऽभ्यमित्रयोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि । "ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥ 'स्यावुरस्वानुरसिलो रथिनो रथिको रथी । 'कामं गाम्यनुकामीनो, 'ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥ "शूरो वीरच विक्रान्तो, "जेता जिष्णुश्च जित्वरः । १२ सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥ १३ ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः ।
१४
वरूथिनी बलं सैन्यं चक्रं चानीकम स्त्रियाम् ॥ ७८ ॥ ४ व्यूहस्तु बलविन्यासो, भेदा दण्डादयो युधि । "प्रत्यासारो व्यूहपाष्णिः "" सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥
१७.
,
१३७
( १ ) जेतुं शक्यस्यैकं नाम 'जय्य:' । [ जीतने में समर्थ । ] २ ) जेतुं योग्यस्यैकं नाम 'जेयः' । [ जीतने योग्य | ] ( ३ ) जैत्रस्य नामद्वयम् । [ जीतने वाला के २ नाम । ] ( ४ ) सामर्थ्येन शत्रुसम्मुखं गच्छतस्त्रीणि । [ शक्ति से शत्रु का मुकाबला करने वाला पुरुष के ३ नाम । ] ( ५ ) अतिबलशालिनस्त्रीणि । [ अतिबलवान् के ३ नाम | ] ( ६ ) विस्तृतवक्षसो नामद्वयम् । [ चौड़ी छाती वाला के २ नाम । ] ( ७ ) रथस्वामिनस्त्रीणि नामानि । [ रथस्वामी के ३ नाम । ] ( ८ ) यथेष्टं गमनशीलस्य नामद्वयम् । [ स्वेच्छा से जाने वाला के २ नाम । ] ( ९ ) अतिगमनशीलस्यैकं नाम । [ बहुत चलने वाला | ] ( १० ) वीरस्य नामत्रयम् । [ शूर के ३ नाम | ] ( ११ ) जेतुर्नामत्रयम् । [ जीतने वाला के ३ नाम | ] ( १२ ) युद्धकुशलस्यैकं । तत्र शस्त्राजीवादय: सांयुगीनान्ता: त्रिषु भवन्ति । [ युद्ध कुशल । ] ( १३ ) सेनाया एकादश नामानि । [ सेना के ११ नाम | ] ( १४ ) व्यूहरचनाया नामद्वयम् । [ व्यूह रचना के २ नाम । ] तत्प्रकारस्तु यथा-
'मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः ।
पार्श्वयोश्च गजाः कार्या व्यूहोऽयमुच्यते बुधैः ' ॥ इति ।
( १५ ) व्यूहस्य भेदा: - दण्डचक्रभोगमण्डलशकादयः । [ व्यूह के भेद । ] (१६) व्यूहपृष्ठभागस्य नामद्वयम् । [ व्यूह का पिछला भाग । ] ( १७ ) सैन्य - पृष्ठस्थितस्यैकम् । [ कुमक, सहायक सेना । ] '
For Private and Personal Use Only