________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
अमरकोषः
[द्वितीयकाण्डे
देवभूयादिकं तद्वत् 'कृच्छं सान्तपनादिकम् । सन्यासवत्यनशने पुमान् प्रायोऽथ वीरहा ॥५२॥ नष्टाग्निः, कुहना लोभान्मिथ्येर्यापथकल्पना । “वात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः॥ ५३॥ "धर्मध्वजी लिङ्गवृत्तिरवकीर्णो क्षतव्रतः। 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४॥
अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । ५°परिवेत्ताऽनुजोऽनुढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥ ११परिवित्तिस्तु तज्ज्यायान्, १२विवाहोपयमौ समौ ।
तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥ १३व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । १०त्रिवर्गो धर्मकामार्थंश, ११चतुर्वर्गः समोक्षकैः॥ ५७ ॥ १ सबलैस्तैश्चतुर्भद्रं, १"जन्याः स्निग्धा वरस्य ये।
इति ब्रह्मवर्गः। ( १ ) प्रायश्चित्तस्यैकम् । [ प्रायश्चित्त । ] अत्र मनु:--
'गोमूत्रं गोमयं क्षीरं दधि सपिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छं सान्तपनादिकम् ॥ (२) प्रायोपवेशस्यकम् । [ अनशन । ] ( ३ ) प्रमादादिहेतुना अग्निहोत्राग्निनष्टस्य नामद्वयम् । [ असावधानी से जिसकी अग्निहोत्र की अग्नि बुझ गयी, उसके २ नाम । ] ( ४ ) दम्भेन कृतध्यानमौनादेरेकम् । [ पाखण्डी।] (५) संस्कारहीनस्य नामद्वयम् । [ वात्य के ३ नाम । ] (६) वेदाध्ययनरहितस्यद्वयम् । [स्वाध्याय हीन के २ नाम । (७) भिक्षाद्यर्थं जटादिधारिणो नामद्वयम् । [ बनावटी साधु के २ नाम ।] (८) खण्डितब्रह्मचर्यादेः । [ खण्डित ब्रह्मचारी।] (९) यस्य सुप्तस्य सूर्य उदेति अस्तञ्चैति तस्यकैकम् । [ अभिनिर्मुक्त तथा अभ्युदित । ] ( १० ) अविवाहिते ज्येष्ठे कृतपाणिग्रहणस्य कनिष्ठस्यकम् । [परिवेत्ता ।] (११) परिवेत्तुज्येष्ठभ्रातुरेकम् । [परिवेत्ता का बड़ा भाई ।] ( १२ ) विवाहस्य षड् नामानि । [विवाह के ६ नाम । ] ( १३ ) मैथुनस्य पञ्च नामानि । [ मैथुन के ५ नाम । ] (१४ ) त्रिवर्गस्यैकम् [धर्म अर्थ काम । ] (१५) चतुर्वर्गस्यैकम् । [ धर्म, अर्थ, काम, मोक्ष । ] ( १६ ) धर्मार्थकामबल: सहितश्चतुर्भद्र इति । [ चतुर्भद्र । ] ( १७ ) वरस्य स्निग्धानामेकम् । [ वराती।]
इति ब्रह्मवर्गः।
For Private and Personal Use Only